________________
४४९
सू० ३।१०१] अपोहवादः
सत्येतरव्यवस्थाभावश्च तत्त्वेतरप्रतिपत्तेरभावात् । तथाच 'यत्सत्तत्सर्वमक्षणिकं क्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्' इत्यादेरिव 'यत्सत्तत्सर्व क्षणिकं नित्ये क्रमयोगपद्याभ्यामर्थक्रियानुपपत्तेः' इत्यादेरप्यसत्त्वानुषङ्गः। विपर्ययप्रसङ्गो वा, सर्वथार्थासंस्पर्शित्वाविशेषात् । कस्यचिदनुमानवाक्यस्य केथ-५ श्चिदर्थसंस्पर्शित्वे सर्वथार्थस्यानभिधेयत्वविरोधः। स्वपक्षविपक्षयोश्च सत्यासत्यत्वप्रदर्शनाय शास्त्रं प्रणयन् वस्तु सर्वथाऽनभिधेयं प्रतिजानाति इत्युपेक्षणीयप्रज्ञः, सर्वथाभिधेयरहितेन तेने तस्य प्रणेतुमशक्तेः। ___ "शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम्" [प्रमाणवा०१० ४१७] इत्यभिधानात् । तत्कृतां तत्त्वसिद्धिमुपजीवति, नार्थस्य तद्वाच्यतामिति किमपि महाद्भुतम् ! वस्तुदर्शनवंशप्रभवत्वाद्धेतुवचो वस्तुसूचकम् ; इत्यक्षणिकवादिनोपि समानम्। मद्धचनमेवार्थदर्शनवंशप्रभवं न पुनः परवचनम्। इत्यन्यत्रापि समानम्।
सकलवचसां विवक्षामात्रविषयत्वाभ्युपगमाच्च, तावन्मात्रसूचकत्वेन च शाब्दस्य प्रामाण्ये सर्व शाब्दविज्ञानं प्रमाणं स्यात्, प्रत्यागमस्यापि प्रतिवाद्यभिप्रायप्रतिपादकत्वाविशेषात् ।
किञ्च, अर्थव्यभिचारवच्छब्दानां विवक्षाव्यभिचारस्यापि दर्शनात्कथं ते तामपि प्रतिपादयेयुः? गोत्रस्खलनादौ टंन्यविवक्षाया-२० मप्यन्यशब्दप्रयोगो दृश्यते एव । 'सुविवेचितं कार्य कारणं न व्यभिचरति' इति नियमोऽर्थविशेषप्रतिपादकत्वेप्यस्याऽस्तु ।
न चास्य विवक्षायास्तदधिरूढार्थस्य वा प्रतिपादकत्वं युक्तम् । ततो बहिरर्थे प्रतिपत्तिप्रवृत्तिप्राप्तिप्रतीतेः प्रत्यक्षवत् । यथैव हि
१ सत्येतरव्यवस्थाऽभावे च। २ पूर्वोक्तस्य सत्यत्वमुत्तरोक्तस्यासत्यत्वमित्यर्थः । ३ अविषयत्वं शब्दानां यतः। ४ सौगतोक्तस्य । ५ कथञ्चित्पारम्पर्येण । कथम् ? प्रथमतस्त्रिरूपधूमादिस्खलक्षणलिङ्गदर्शनं, तदनु सम्बन्धस्सरणं, तदनु शब्दप्रयोग इति । ६ सौगतेनाङ्गीक्रियमाणे। ७ दिग्नागादिः । ८ स्खलक्षणम् । ९ शब्देन । १० शास्त्रान्तरेपि स्वलक्षणसूचकं वचोस्तीति वदति शक्तस्य समर्थस्य हेतो—मादिवलक्षणस्य वाच्यस्य । ११ साध्येऽशक्तमपि । १२ स्वरूपेण । १३ सौगतेन । १४ वचन। १५ अङ्गीकरोति। १६ त्रिरूपधूमादिस्वलक्षणलिङ्ग । १७ वंशः= अन्वयः। १८ जैनस्य । १९ ज्ञानस्य । २० परवचनस्य। २१ जैनादि। २२ गोत्रं नाम । २३ देवदत्त । २४ जिनदत्त । २५ शब्दलक्षणम् । २६ विवक्षालक्षणम् । २७ घटपटादो।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org