SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ४४८ [ ३. परोक्षपरि० प्रतीतिः किमिन्द्रियजप्रतीतितुल्या, तद्विलक्षणा वा ? यदि तत्तुल्या; तदा 'शब्दात्प्रेत्येति विनंष्टाक्षो न तु प्रत्यक्षमते इत्यनेन विरोधः । तद्विलक्षणा चेत्; न तर्हि प्रतीतिवैलक्षण्यं विषयभेदसाधनम्, एकत्रापि विषये तदभ्युपगमात् । प्रमेयकमलमार्त्तण्डे ५ दाहशब्देन चात्र कोर्थोभिप्रेतः किमग्निः, उष्णस्पर्शः, रूपविशेषः, स्फोटः, तद्दुःखं वा ? अस्तु यः कश्चित् किमेभिर्विकल्पैभवतां सिद्धमिति चेत् ? एतेषां मध्ये योर्थोभिप्रेतो भवतां तेनार्थेनार्थवत्त्वप्रसिद्धेः तस्यानर्थविषयत्वाभावः सिद्ध इति । 97 नन्वेवं देहेन सम्बन्धाद्यथा स्फोटो दुःखं वा तथा दाहशब्दादपि १० किन्न स्यादर्थप्रतीतेरविशेषात् ? तन्नः अन्यकार्यत्वात्तस्य, न खलु दहनप्रतीतिकार्य स्फोटादि । किं तर्हि ? दहन देहसम्बन्धविशेषकार्यम्, सुषुप्तावस्थायामप्रतीतावपि अग्नेस्तत्सम्बन्धविशेषात् स्फोटादेर्दर्शनात्, दूरस्थस्य चक्षुषा प्रतीतावप्यदर्शनात्, मन्त्रादिबलेन त्वगिन्द्रियेणापि प्रतीतवप्यदर्शनात् । तस्मादभिन्नपि १५ विषये सामग्रीभेदाद्विशदेतरप्रतिभासभेदोऽभ्युपगन्तव्यः । तथा चेदमप्ययुक्तम्- ' न चैकस्य वस्तुनो रूपद्रयमस्त्येकस्य द्वित्वविरोधात्' इति । २६ 219 यदि भावोभिधीयते शब्दभावो नाभिधीयते इति क्रियाप्रतिषेधान्न किञ्चित्कृतं स्यात् । तथा च कथं नदी देशद्वीपपर्वत२० स्वर्गापवर्गादिष्वासप्रणीतवाक्यात्प्रतिपत्तिः श्रेयःसाधनानुष्ठाने प्रवृत्तिर्वा ? अन्यथा सर्वस्मादपि वाक्यात्सर्वत्रार्थे प्रतिपत्तिप्रवृत्त्यादिप्रसङ्गः । १ सामान्यार्थ जानाति । २ अन्धो ना । ३ क्रियाविशेषणम् । चक्षुः प्रत्यक्षेण यादृशमीक्षते न तादृशमिति भावः । ४ अर्थम् । ५ शब्दजेन्द्रियजप्रतीत्योः समानस्वात् । ६ दूरनिकटैकपादपादौ स्वलक्षणे । ७ परेण । ८ लोके । ९ सौगतस्य तव । १० जैनानाम् । ११ पदार्थानाम् । १२ सौगतानाम् । १३ शब्दस्य । १४ तेनार्थेनार्थवत्त्वसिद्धिप्रकारेण । १५ वह्निदहनसम्बन्धादर्थप्रतीतिर्विद्यते शब्दादप्यर्थं प्रतीतिरिति । १६ दहनस्य । १७ स्फोटादिकस्य । १८ दूरपादपादौ । १९ दूरनिकटादि । २० परेण । अनेन कथनेन बौद्धस्य यथा स्वलक्षणस्य प्रत्यक्षेण स्पष्टतया प्रतिभासन तथा शब्देनाप्यस्पष्टतया प्रतिभासनं जातमिति । २१ सामग्रीभेदात्प्रतिभासमेदे च । २२ वैशद्यावैशद्यरूपम् । २३ अपोहः । २४ भावस्य । २५ तहीँति शेषः । २६ शब्दैः । २७ शब्दैर्न किंचित् वाच्यं स्यात् । २८ शब्देन कस्याप्यकरणेप्यर्थप्रतीतिरनुष्ठाने प्रवृत्तिश्च यदि । २९ अकृतत्वाविशेषात् । 1 For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy