________________
सू० ३३१०१] अपोहवादः
शब्दात्प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते ॥ १॥"[ ] "अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥"
[वाक्यप० ।४।२५ ] इत्यादि। सामग्रीभेदाद्विशदेतरप्रतिभासभेदो न पुनर्विषयभेदात् , सामा-५ न्यविशेषात्मकार्थविषयतया सकलप्रमाणानां तद्भेदाभावादित्यग्रे वक्ष्यमाणत्वात् । ततो 'यो यत्कृते प्रत्यये न प्रतिभासते' इत्यादिप्रयोगे हेतुरसिद्धः, सामान्यविशेषात्मार्थलक्षणस्खलक्षणस्य शाब्दप्रत्यये प्रतिभासनात् ।
प्रयोगः-यद्यत्र व्यवहृतिमुपजनयति तत्तद्विषयम् यथा सामान्य-१० विशेषात्मके वस्तुनि व्यवहृतिमुपजनयत्प्रेत्यक्षं तद्विषयम्, तत्र व्यवहृतिमुपजनयति च शब्द इति । न चासिद्धो हेतुः, बहिरन्तश्च शाब्दव्यवहारस्य तथाभूते वस्तुन्युपलम्भात् । भवत्कल्पितखलक्षणस्य तु प्रत्यक्षेऽन्यत्र वा स्वप्नेप्यप्रतिभासनात् ।
प्रतिज्ञापदयोश्च व्याघातः; तथाहि-'अन्यदेवेन्द्रियग्राह्यम्'१५ इत्यनेन शब्देन कश्चिदर्थोभिधीयते वा, न वा? नाभिधीयते चेत् ; कथमिन्द्रियौहास्यान्यत्वमतःप्रतीयते ? अथाभिधीयतेर्थः, तर्हि तस्यैव तद्विषयत्वप्रसिद्धः कथन शब्दस्यागोचरत्वप्रतिशाऽतो व्याहन्येत? साँक्षादिन्द्रियग्राह्यागोचैरोऽसाविति चेत् । पारम्पर्येणासौ तद्गोचरो भवति, न वा? यदि न भवति; तर्हि २० 'साक्षात्' इति विशेषणं व्यर्थम् । अथ भवति, तर्हि तज्ज्ञा(तजा)
१ कुतः । २ अर्थम् । ३ जानाति । ४ उत्पाटिताक्षः अन्ध इत्यर्थः । ५ क्रियाविशेषणमेतद् । ६ परोक्षं जानातीत्यर्थः । ७ अर्थम् । ८ स्पर्शनेन्द्रियग्राह्यतया । ९ स्पष्टत्वेन । १० जामाति । ११ अस्पष्टत्वेन । १२ आसन्नदूरत्वादि । १३ सामाग्यविशेषात्मकाओं विषयो भवतीति साध्यः, शब्दो धर्मी। १४ बसः। १५ विषय। १६ चतुर्थाध्याये। १७ शब्दप्रत्ययेऽर्थप्रतिभासः सिद्धो यतः । १८ अनुमाने। १९ शब्दकृते प्रत्ययेऽप्रतिभासमानत्वात्स्वलक्षणस्येति । २० कुतः । २१ यसः। २२ शब्दशानजनितशाने। २३ विकल्पज्ञानम् । २४ विकल्पम् । २५ नायनादि । २६ तत्र व्यवहृतिजनकत्वात्। २७ गवादौ । २८ आत्मादौ । २९ सौगत । ३० अनुमानादौ । ३१ खरविषाणवत् । ३२ व्याघातमेव दर्शयति । ३३ बौद्धमते शब्दः कञ्चिदप्यथं न वक्ति तर्हि । ३४ अर्थस्य। ३५ भिन्नत्वम् । ३६ अर्थोऽगोचरो यस्य । ३७ अव्यवधानेन । ३८ बसः। ३९ खलक्षणं प्रत्यक्षं गृनाति । प्रत्यक्षाच्च विकल्पः (नीलमिदं पीतमिदमिति)। विकल्पाच्च शब्द उत्पद्यते । विकल्पयोनयः शब्दः इत्यभिधानादिति । ४० स गोचरो यस्य शब्दस्य । ४१ पारम्पर्येणेन्द्रियग्राह्यार्थगोचरो भवति शब्दः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org