________________
४५०
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० प्रत्यक्षात्प्रतिपत्तृप्रणिधानसामग्रीसापेक्षात्प्रत्यक्षार्थप्रतिपत्तिस्तथा सङ्केतसामग्रीसापेक्षादेव शब्दाच्छब्दार्थप्रतिपत्तिः सकलजनप्रसिद्धा, अन्यथाऽतो बहिरर्थे प्रतिपत्त्यादिविरोधः। न चार्थेऽथिनोऽर्थित्वादेव प्रवृत्तेः शब्दोऽप्रवर्तकः, अध्यक्षादेरप्येवर्मप्रवर्त५कत्वप्रसङ्गात् तदर्थप्यभिलाषादेव प्रवृत्तिप्रसिद्धः । परम्परयां प्रवर्तकत्वं शब्देप्यंस्तु विशेषाभावात् ।।
का चेयं विवक्षा नाम-किं शब्दोच्चारणेच्छामात्रम्, 'अनेन शब्देनामुमर्थ प्रतिपादयामि' इत्यभिप्रायो वा ? प्रथमपक्षे वक्तृश्रोत्रोः शास्त्रादौ प्रवृत्तिर्न स्यात् । न खलु कश्चिदनुन्मत्तः शब्द१० निमित्तेच्छामात्रप्रतिपत्त्यर्थ शास्त्रं वाक्यान्तरं वा प्रणेतुं श्रोतुं प्रवर्त्तते । दशदाडिमादिवाक्यैः सह सर्ववाक्यानामविशेषप्रसङ्गश्च, सर्वेषां स्वप्रभवेच्छामौत्रानुमापकत्वाविशेषात् । अथ 'अनेन शब्देनामुमर्थ प्रतिपादयामि' इत्यभिप्रायो विवक्षा,
तत्सूचकत्वेन शब्दानामनुमानत्वम् । तदप्ययुक्तम् ; व्यभिचारात्। १५न हि शुकशारिकोन्मत्तादयस्तथाभिप्रायेण वाक्यमुच्चारयन्ति ।
किञ्च, समयानपेक्षं वाक्यं तादृशमभिप्रायं गमयेत् , तत्सापेक्ष वा? आद्यविकल्पे सर्वेषांमर्थप्रतित्तिप्रसङ्गान्न कश्चिद्भाषानभिज्ञः स्यात् । समयापेक्षस्तु शब्दोऽर्थमेव किं न गमयति? न हाय. मर्थाद्विमेति येन तत्र साक्षान्न वर्तेत । यश्चाशक्यसमयत्वादिकेर्थे २० शब्दाप्रवृत्तौ न्यायः, सोऽभिप्रायेपि समान इत्यभिप्रायावगमोपि शब्दान्न स्यात् । तन्न खलक्षणस्याभिधानेनानिर्देश्यत्वम् ।
किञ्च, तच्छब्देनाऽप्रतिपाद्याऽनिर्देश्यत्वमस्योच्येत, प्रतिपाद्य वा? न तावदप्रतिपाद्य; अतिप्रसङ्गात् । प्रतिपाद्य चेत्, न;
१ प्रणिधानमेव सामग्री। २ शब्दात्। ३ पुरुषस्य । ४ पुरुषस्य। ५ अथित्वादेव। ६ प्रत्यक्षमभिलाषमुत्पादयति, अभिलाषाच्चार्थे प्रवृत्तिरिति। ७ प्रत्यक्षस्य । ८ शब्दोप्य. भिलाषमुत्पादयति, अभिलाषात्प्रवृत्तिरिति। ९ परम्परया प्रवर्तकत्वस्य । १० धीमान्। ११ शब्दस्य निमित्तं कारणं या सा, सा चासाविच्छा च सैवेच्छा एवंभूता यतः शब्दो. चारः पुरुषस्य । १२ वेषां वाक्यानां प्रभव उत्पतिर्यस्या इच्छायाः सा चासाविच्छा चेति । १३ विवक्षा धर्मिणी अस्यास्तीति साध्यं शब्दोच्चारणान्यथानुपपत्तेरिति । १४ अस्यैवंविधोभिप्रायोस्ति तदभिधायकशब्दोच्चारणादिति । १५ समयः संकेतः । १६ सर्वतया । १७ अविशेषतः । १८ कचिद्देशादौ । १९ सकलभाषात्मकशब्दय. णात् । २० द्वितीयविकल्पः । २१ अर्थानामानन्त्यात् । २२ अमिप्रायाणामानन्त्यात् । २३ शब्दश्रोतृणाम् । २४ अशक्यसमयत्वाविशेषात् । २५ सामान्यविशेषात्मकस्सा. धेस्य । २६ शब्देन । २७ स्वलक्षणेति शब्देन । २८ घडादेरप्यनिर्देश्यत्वप्रसङ्गात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org