SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ४२४ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० एतेन 'अन्यैस्ताल्वादिसंयोगैः' इत्यादि निरस्तम्; कथम्? ध्वन्यन्तरसारिभिस्ताल्वादिभिर्यद्यपि ध्वन्यन्तराक्षेपो नास्ति तथापि य एव तैराक्षिप्यते तत एव सर्ववर्णश्रुतेर्वन्यन्तराक्षे. पपक्षदोषस्तवस्थः। तन्न शब्दसंस्कारोभिव्यक्तिर्घटते । ५ अथेन्द्रियसंस्कारोसौ । तदुक्तम् “अथापीन्द्रियसंस्कारः सोप्यधिष्ठानदेशतः। शब्दं न श्रोष्यति श्रोत्रं तेनाऽसंस्कृतशष्कुलि ॥१॥ अप्राप्तकर्णदेशत्वावनेनं श्रोत्रसंस्क्रिया। अतोऽधिष्ठानभेदेन संस्कारनियमस्थितिः॥२॥" [मी० श्लो० शब्दनि० श्लो०६९-७०] "यद्यपि व्यापि चैकं च तथापि ध्वनिसंस्कृतिः। अधिष्ठानेषु सा यस्य तच्छब्दं प्रतिपत्स्यते ॥१॥" . [मी० श्लो० शब्दनि० श्लो० ६८ ] इति। . अत्रापि सकृत्संस्कृतं श्रोत्रं युगपत्सर्ववर्णान् शृणुयात् । १५न ह्यञ्जनादिना संस्कृतं चक्षुः सन्निहितं नीलधवलादिकं कश्चित्पश्यति कञ्चिन्नेति । बलातैलादिना संस्कृतं श्रोत्रं वा कांश्चिदेव गकारादीन् शृणोति कांश्चिन्नेतीति नियमो दृष्टो येनात्रापि तथा - कल्पना स्यात् । ततो निराकृतमेतत् "तथा(यथा)घटादेर्दीपादिरभिव्यञ्जक इष्यते। चक्षुषोऽनुग्रहादेवं ध्वनिः स्याच्छोत्रसंस्कृतेः॥१॥ न चा(च)पर्यनुयोगोत्र केनाकारेण संस्कृतिः। उत्पत्तावपि तुल्यत्वाच्छक्तिस्तत्राप्यतीन्द्रिया ॥२॥" [मी० श्लो० शब्दनि० श्लो० ४२-४३] इति । २५ प्रदीपादिनानुगृहीतचक्षुषा पटाद्यनेकार्थग्रहणवत् ध्वन्यनुः गृहीतश्रोत्रेणाप्येकदानेकशब्दश्रवणप्रसङ्गात् । प्रयोगः-श्रोत्र. मेकेन्द्रियग्राह्याभिन्नदेशावस्थितार्थग्रहणाय प्रतिनियतसंस्कारकसंस्कार्य न भवति इन्द्रियत्वाच्चक्षुर्वत्। तन्न श्रोत्रसंस्कारोप्यभिव्यक्तिर्घटते। ३० अस्तु त भयसंस्कारः । न चात्रोक्तदोषानुषङ्गः। तदुक्तम् "द्वयसंस्कारपक्षे तु वृथा दोषद्वये वचः।। येनान्यतरवैकल्यात्सर्वैः सर्वो न गृह्यते ॥१॥" [मी० श्लो० शब्दनि० श्लो०८६] १ सर्वशब्दश्रवणोत्पादितैलविशेषोयम् । - Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy