________________
४२५
सू० ३।९९] शब्दनित्यत्ववादः
तदप्ययुक्तम् । उक्तदोषादेव, तथाहि-यदैकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं संस्कृतं वर्ण प्रतिपद्यते तदा तत्रत्यसर्ववर्णान्प्रति. पद्येत संस्कृतं च वर्ण सर्वत्र सर्वदाऽवस्थितत्वेन, अन्यथा तत्प्रतीतिरेव न भवेत्तदात्मकत्वात्तस्य । अतो व्यङ्ग्यव्यञ्जकमावस्य विचार्यमाणस्याऽयोगान्न व्यञ्जकध्वन्यधीनो विभिन्नदेशकालख-५ भावतया शब्दस्योपलम्भोऽपि तु तत्स्वभावभेदनिबन्धनः। __ यञ्चोक्तम्-'जलपात्रेषु च' इत्यादि; तदप्यसाम्प्रतम् ; तत्रोपलभ्यमानस्यादित्यप्रतिबिम्बस्यानेकत्वात् । 'गगनतलावलम्बी हि सविता तत्रोपलभ्यते' इत्यत्र न प्रत्यक्षं प्रमाणं तत्स्वरूपाप्रति. भासनात् । तस्य हि स्वरूपं गगनतलावलम्बि चैकं च, तन्नाव-१० भासते । यच्चावभासि जलपात्रावलम्बि चानेकं च, तदृक्षच्छायादिवद्वस्त्वन्तरमेव । न चान्यप्रतिभासेऽन्यप्रतिभासो नामाऽतिप्रसङ्गात् । न च जलभानोर्गगनभानुना सादृश्यादेकत्वम् । कमनीयकामिनीनयनयोरपि तत्प्रसङ्गात् । नापि तद्विकारे जलभानुविकारादेकत्वम् । वृक्षच्छाययोरपि तत्प्रसङ्गात् । १५
ननु तत्र तत्प्रतिविम्बानां वस्त्वन्तरत्वे कुतःप्रादुर्भावः स्यादिति चेत् ? जलादित्यादिलक्षणवसामग्रीविशेषात् । तर्हि खच्छताविशेषसद्भावाजलादर्शादयो मुखादित्यादिप्रतिबिम्बाकारविकारधारिणः कस्मान्न सर्वदोपलभ्यन्ते इति चेत् ? खेसामग्र्यऽभावतोऽभावाच्छब्दसुखादिवत् । कश्चिद्धि विकारः सहकारि नि-२० वृत्तावप्यनिवर्तमानो दृष्टो यथा घटादिः, कश्चित्तु निवर्तमानो यथा शब्दादिः, अचिन्त्यशक्तित्वाद्भावानाम् । ताल्वादिव्यापारसहकारिनिवृत्तौ हि पुद्लँस्य श्रावणस्वभावव्यावृत्तिः । स्रग्व. नितानिवृत्तौ चाल्हादनाकारल्यावृत्तिरात्मनः सकलजनप्रसिद्धा, एवमादित्यादिसहकारिनिवृत्तौ जलादेस्तत्प्रतिबिम्बाकारनिवृ.२५ त्तिरविरुद्धा।
ततो निराकृतमेतत्-'अत्र ब्रूमो यदा तावजले सौर्येण' इत्यादि। स्वप्रदेशस्थतया सवितुर्ग्रहणासिद्धः। 'चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम्' इति चातीवाऽसङ्गतम् प्रमाणाभावात् । न हि चक्षुः स्तेजांसि जलेनाभिसम्बन्ध्य पुनः सवितारं प्रति प्रवर्तितानि ३० प्रत्यक्षादिप्रमाणतः प्रतीयन्ते । यथा च चक्षूरश्मीनां विषयं प्रति
१ मुखादिप्रतिबिम्बाकारस्य । २ चक्रचीवरादि । ३ उत्पत्तेरुत्तरकाले । ४ आदिना सुखम् । ५ कथम् । ६ शब्दरूपस्य । ७ व्याधुट्टनम् । ८ यसादस्त्वन्तरत्वं सिद्ध प्रतिबिम्बानाम् । ९ पुनः। १० सौर्येण तेजसा । ११ घटादिपदार्थम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org