________________
सू० ३।९९] शब्दनित्यत्ववादः
४२३ सन्तु वा ते, तथाप्यतः क्वचिदावरणविगमे विवक्षितवर्णवन्निखिलवर्णोपलब्धिप्रसङ्गः, व्यापकत्वेन सर्वेषां तत्र सद्भावात्, तथा च ध्वन्यन्तरस्य वैफल्यम् । ननु चावार्याणामिवावारकाणां तद्वञ्च तद्पनेतृणां भेदस्तेनायमदोषः। उक्तञ्च
"व्यञ्जकानां हि वायूनां भिन्नावयवदेशता। जातिभेदश्च तेनैवं संस्कारो व्यवतिष्ठते ॥१॥ अन्यार्थ प्रेरितो वायुर्यथान्यं न करोति वः। तथान्यवर्णसंस्कारशक्तो नान्यं करिष्यति ॥२॥ अन्यैस्ताल्वादिसंयोगैर्वर्णो नान्यो यथैव हि । तथा ध्वन्यन्तराक्षेपो न ध्वन्यन्तरसारिभिः॥३॥ तस्मादुत्पत्त्यभिव्यक्त्योः कार्यार्थापत्तितः समः। सामर्थ्य भेदः सर्वत्र स्यात्प्रयत्नविवक्षयोः॥४॥"
[मी० श्लो० शब्दनि० श्लो० ७९-८२] तदप्यसमीक्षिताभिधानम् ; अभिन्नदेशेऽभिन्नेन्द्रियग्राह्ये चावार्य आवरणभेदस्याभिव्यञ्जकभेदस्य चाऽप्रतीतेः । न खलु १५ घटशरावोदश्चनादीनां तथाविधानामावरणव्यञ्जकमेदो दृष्टः, काण्डपटादेरेकस्यैवावरणत्वस्य प्रदीपादेश्चैकस्यैवाभिव्यञ्जकत्वस्य । प्रसिद्धेः । तथा च प्रयोगः-शब्दाः प्रतिनियतावरणावा-: प्रतिनियतव्यञ्जकव्यङ्ग्या वा न भवन्ति, समानदेशैकेन्द्रियग्राह्यत्वाद् , घटादिवत् । न चाऽऽवार्यवर्णानां देशभेदो युक्तः, व्यापक-२० त्वाभावप्रसङ्गात् । देशभेदो हि परस्परदेशपरिहारेणावस्थानाप्रसिद्धो गोकुञ्जरवत् । तथा चावरणभेदस्याऽसतः कथं जातिभेदप्रकल्पनं तदपनेतृजातिभेदप्रकल्पनं च श्रेयो यतो 'जातिभेदश्च' इत्यादि शोभेत।
नन्वेकेन्द्रियग्राह्यस्यापि व्यङ्ग्यस्य व्यञ्जकभेदो दृष्टः, यथा २५ भूमिगन्धस्य जलसेकः न शरीरगन्धस्य । अस्यापि मरीचिचक्रसहायस्तैलाभ्यङ्गो न भूमिगन्धस्येति । सत्यं दृष्टः; स तु विषयसंस्कारकस्य व्यञ्जकस्य, न त्वावरणविगमहेतोः । नैव वा गन्धस्याभिव्यञ्जका जलसेकादयोऽपि तु कारकाः, तत्सहकारिणः पृथिव्यादेविशिष्टस्य गन्धस्योत्पत्तेः पूर्व तत्र तत्सद्भावावेदक-३० प्रमाणाभावात् । कारकाणां चैकेन्द्रियग्राह्ये समानदेशे च कार्य नियमो दृष्टः । यथैकत्र स्थिता अपि यवबीजादयो न सर्वे शाल्यङ्करं यवाङ्कुरं चोत्पादयन्ति, किन्तु शालिबीजमेव शाल्यडुरं यवबीजं च यवाङ्कुरम् इति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org