________________
प्रमेयकमलमार्त्तण्डे
[ ३. परोक्षपरि०
कथमावारकमिति चेत् ? अन्तरालवदिति ब्रूमः । तन्मते सान्तराः। निरन्तरत्वे चैषाम् तद्वच्छन्दस्यापि निरन्तरत्वादावार्यावारकभावः समान एवोभयत्र । अथ वस्तुस्वाभाव्यात् स्तिमिता वायव एव तदावारकाः ननु दृष्टे वस्तुन्येतद्व ं शक्यम्, यथा दृष्टेऽग्नौ दाहकत्वेन 'वस्तुस्वाभाव्यादग्निर्दहति न 'जलम्' इत्युच्यते । न च तथाविधा वायवो दृष्टाः । नापि सन् शब्दस्तैरात्रियमाणो येनैवं स्यात् । अंदृष्टकल्पनमुभयत्र समानम् । तन्न किश्चित्तस्यावारकम् ।
अस्तु वा तत्, तथाप्यस्य कुतो विगमः ? ध्वनिभ्यश्चेत्; न; १० तत्सद्भावावेदक प्रमाणप्रतिषेधतस्तेषामसत्त्वात् । सत्त्वे वा कुतस्तेषामुत्पत्तिः ? ताल्वादिव्यापाराच्चेत्; न; तद्वच्छन्दस्यापि तयापारे सत्युपलम्भतस्तत्कार्यतानुषङ्गात् । ननु खननाद्यनन्तरं व्योमोपलभ्यते, न च तत्कार्यमतोऽनैकान्तिकत्वम् । तदुक्तम्"अनैकान्तिकता तावद्धेतूनामिह कथ्यते । प्रयत्नानन्तरं दृष्टिर्नित्येपि न विरुद्ध्यते ॥ १ ॥ " [ मी० श्लो० शब्दनि० लो० १९] "आकाशमपि नित्यं सद्यदा भूमिजलावृतम् । व्यज्यते तदपोहेन खननोत्सेचनादिभिः ॥ २॥ प्रयत्नानन्तरं ज्ञानं तदा तत्रापि दृश्यते । तेनानैकान्तिको हेतुर्यदुक्तं तत्र दर्शनम् ॥ ३ ॥ अथ स्थगितमप्येतदस्त्येवेत्यनुमीयते । शब्दोपि
१५
४२२
२०
प्रत्यभिज्ञानात्प्रागस्तीत्यवगम्यताम् ॥ ४ ॥" [ मी० लो० शब्दनि० लो० ३०-३३] तदप्यसङ्गतम् ध्वनीनामप्येवं ताल्वादिव्यापारकार्यत्वाभाव२५प्रसङ्गात् । एकरूपता चाकाशस्याप्यसिद्धा; स्वविज्ञानजननैक'स्वभावत्वे हि तस्य न खननाद्यनन्तरमेवोपलब्धिः किन्तु पूर्वमपि स्यात् । तदस्वभावत्वे वा न कदाचनाप्युपलब्धिः स्याद्विशेषाभावात् । विशेषे वा एकरूपताव्याघातः । प्रत्यभिज्ञानाच्छन्दे प्राक् सत्त्वसिद्धिश्च ध्वनावपि समाना 'य एव पूर्वमकारस्य ३० व्यञ्जको ध्वनिः स एव पश्चादपि' इति प्रतीतेः । तथा च व्यञ्जनस्यापि सर्वत्र सर्वदा सद्भावे ताल्वादिव्यापारवैफल्यं सर्वत्र सर्वदा व्यङ्ग्यप्रतीतिश्च स्यात् । तन्न ताल्वादिव्यापारकार्यता ध्वनीनामेव । अतः कथं तेषां सत्त्वमुत्पादकाभावात् ?
१ जैनाः 1 २ शब्दो वायोरावारकः कुतो न स्यादिति जैनेनोक्ते परः प्राहअदृष्टकल्पना स्यादिति । तस्योपरि जैनेनोच्यते ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org