________________
सू० ३।९९] शब्दनित्यत्ववादः
४२१ यदप्युक्तम्-यथैवोत्पद्यमानोऽयमित्यादिः तदप्यसङ्गतम्, न हि दिगाद्यपेक्षयाऽस्माभिस्तग्रहणमिष्यतेऽपि तु श्रवणान्तर्गतत्वेन । अतो यस्यैव श्रवणान्तर्गतो यः शब्दः स तेनैव गृह्यते । सर्वगतवर्णपक्षे तु नायं परिहारो निखिलवर्णानां सकलप्रतिपत्तृश्रवणान्तर्गतत्वेन तथैवोपलम्भप्रसङ्गात् । ५
आवरणविगमः शब्दसंस्कारः; इत्यप्यसत्यम् । यतः प्रमाणान्तरेण शब्दसद्भावे सिद्धे तस्यावरणं सिद्धयेत् स्पार्शनप्रत्यक्षप्रतिपन्ने घटेऽन्धकारादिवत् । न चासौ सिद्धः । तत्कथमस्यावरणम् ? नित्यस्याऽस्याऽनाधेयाऽप्रहेयाऽतिशयात्मतयाऽस्याकिञ्चित्करत्वाच । न चाऽकिश्चित्करः कस्यचिदावरणमतिप्रस-१० ङ्गात् । उपलब्धिप्रतिबन्धकारणात्तच्चेत् ; न; तजननैकस्वभावस्य तयोगात् । न हि कारणाऽक्षये कार्यक्षयो युक्तस्तस्याऽतत्कार्यत्वप्रसङ्गात् । कथमेवं कुड्यादयो घटादीनामावारका इति चेत्, तज्जनकखभावखण्डनात् । कथमन्यस्योपलब्धि जनयन्तीति चेत्? तं प्रति तत्स्वभावत्वात् । कथमेकस्योभयरूपता? इत्यप्य-१५ चोद्यम् ; तथा दृष्टत्वात् । शब्दस्यापि स्वभावखण्डनेऽनित्यतेत्युक्तम्।
सर्वगतत्वे चास्याब्रियमाणत्वायोगः । आवार्या हि येनावियते तदावारकम् , यथा पटो घटस्य । शब्दस्त्वावारकमध्ये तद्देशे तत्पार्श्वे च सर्वत्र विद्यमानत्वात्कथं केनचिदा-२० वियेत? प्रत्युत स एवावारकः स्यात् । तद्वत्तदावारकमपि सर्व. गतमिति चेत्, न तावारकम् । न ह्याकाशमात्मादीनामावारकम् । मूर्त्तत्वात्तदिति चेत् ; न तर्हि सर्वगतं घटादिवत् ।
अथ यावयोमव्यापिनो बहव एवास्यावारकाः ते; किं सान्तराः, निरन्तरा वा? यदि सान्तराः; न तर्हि तस्यावरणम् , तन्मध्ये २५ तद्देशे तत्पार्श्वे च विद्यमानत्वात् । अथ स्वमाहात्म्यात्तथापि स्वदेशे तदावारकाः; तन्तिराले तदुपलम्भप्रसङ्गः । तथा च सान्तरा प्रतिपत्तिः प्रतिवर्ण खण्डशः प्रतिपत्तिश्च स्यात् । सर्वत्र सर्वदा सर्वात्मना विद्यमानत्वान्नदोषश्चेत् नैवम् प्रतिप्रदेशमकारादिबहुत्वस्य ध्वन्यादिवैफल्यस्य चानुषङ्गात्, तद्भावेप्यन्तराले ३० उपलम्भसम्भवात् । अथान्तरालेऽसन्तोष्यावारकाः, तीकमेवावारकं प्रदेशनियतं कल्पनीयं किं तद्बहुत्वेन ? अन्यत्राविद्यमानं
१ आदिना देशकालादियः। २ जनैः । ३ अन्धकारादिर्यथाऽऽवरणं घटस्य । ४ आवारकेण । ५ मूलपुस्तके 'अन्यत्वा-' इति ।
प्र. क. मा०३६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org