________________
सू० ३।९९] शब्दनित्यत्ववादः
ऊर्द्धवृत्ति तदेकत्वादवागिव च मन्यते । अधस्तादेव तेनार्कः सान्तरालः प्रतीयते ॥३॥ एवं प्राग्गर्तया वृत्त्या प्रत्यग्वृत्तिसमर्पितम् । बुध्यमानो मुखं भ्रान्तेःप्रेत्यगित्यवगच्छति ॥४॥ अनेकदेशवृत्तौ च सत्यपि प्रतिबिम्बके । समानबुद्धिगम्यत्वान्नानात्वं नैव विद्यते ॥५॥"
[मी० श्लो० शब्दनि० श्लो० १८६-१९०] किञ्चे,
"देशभेदेन भिन्नत्वं मतं तच्चानुमानिकम् । प्रत्यक्षस्तु स एवेति प्रत्ययस्तेन बाधकः॥ ६॥ पर्यायेण यथा चैको भिन्नदेशान् व्रजन्नपि । देवदत्तो न भिद्येत तथा शब्दो न भिद्यते ॥ ७॥ ज्ञातैकत्वो यथा चासो दृश्यमानः पुनः पुनः। न भिन्नः कालभेदेन तथा शब्दो न देशतः॥ ८॥ पर्यायादविरोधश्चेद्यापित्वादपि दृश्यताम् । दृष्टसिद्धो हि यो धर्मः सर्वथा सोऽभ्युपेयताम् ॥९॥"
[मी० श्लो० शब्दनि० श्लो० १९७-२०० ] इति । अत्र प्रतिविधीयते । नित्यः शब्दोऽर्थप्रतिपादकत्वान्यथानुपपत्तेरित्ययुक्तम् ; धूमादिवदनित्यस्यापि शब्दस्यावगतसम्बन्धस्य सादृश्यतोऽर्थप्रतिपादकत्वसम्भवात् । न खल य एव सङ्केतकाले २० दृष्टस्तेनैवार्थप्रतीतिः कर्त्तव्येति नियमोस्ति, महानसदृष्टधूमसदृशादपि पर्वतधूमादग्निप्रतिपत्त्युपलम्भात् । न हि महानसंप्रदेशोपलब्धैव धूमव्यक्तिरेन्यत्राप्यग्निं गमयति; सदृशपरिणामाक्रान्तव्यत्यन्तरस्य तद्गमकत्वप्रतीतेः, अन्यथा सर्वस्य सर्वगतत्वानुषङ्गः । सदृशपरिणामप्रधानतया च साध्यसाधनयोः सम्बन्धावधारणम् । न ह्यनाश्रितसमानपरिणतीनां निखिलधुमा. दिव्यक्तीनां वसाध्येनाऽर्वाग्देशा सम्बन्धः शक्यो ग्रहीतुम्;
१ गच्छत्या । २ संमुखम् । ३ सूर्यस्योपलम्भद्वारेण । ४ इत्यस्यापि प्रतिबिम्बके सूर्यस्योपलम्भद्वारेणानेकदेशवृत्तिकं ततश्चानैकान्तिकत्वं प्रकृतसाधनस्यानेनेति चेन्न तस्यापि नानात्वसंभवात इति वदन्तं प्रति। ५ एवमनेकान्तदूषणमुद्भाव्य कालात्ययापदिष्टत्वमुद्भावयति । मिन्नदेशस्यैकत्वं नास्तीति प्रत्यक्षं कथमनुमानबाधकमित्युक्त चाह । ६ गकारादीनाम् । ७ कारणेन । ८ कालक्रमेण। ९ व्यवहारकाले । १० समानत्वमित्यर्थः। ११ अग्निधूमयोः शब्दार्थयोश्च । १२ शब्दप्रकारेण=
शब्दव्यक्तिर्भवति पक्षे शब्दत्वादिति वक्तव्यम् । १३ असर्ववेन । Jain Educationa Internationale allo For Personal and Private Use Only
www.jainelibrary.org