________________
४१०.
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० असाधारणरूपेण तस्य तासामप्रतिभासनात्, अथ धूमसामान्यमेवाग्निप्रतिपत्तिकारणम्, न; व्यक्तिसादृश्यव्यतिरेकेण तदसम्भवात् । न च 'धूमत्वान्मया प्रतिपन्नोग्निः' इति प्रतिपत्तिः, किन्तु धूमात् । सा च सामान्यविशिष्ट व्यक्तिमात्रयोः सम्बन्ध५ग्रहणे घटते । न तु धूमाग्निसामान्ययोरवश्यं चानुमेयानुमापकयोः सामान्यविशिष्टविशेषरूपतोपगन्तव्या, अन्यथा सामान्यमात्रस्य दाहाद्यर्थक्रियासाधकत्वाऽभावात् ज्ञानाद्यर्थक्रियायाश्च तत्साध्यायास्तदैवोत्पत्तः, दाहाद्यर्थिनामनुमेयार्थप्रतिभासात् प्रवृत्त्यभावतोऽस्याप्रामाण्यप्रसङ्गः । सामान्यविशिष्टविशेषरूपता १० चात्र वाच्यवाचकयोरपि समाना न्यायस्य समानत्वात् ।
यदप्युक्तम्
"सदृशंत्वात्प्रतीतिश्चेत्तद्वारेणाप्यवाचकः । कस्य चैकस्य सादृश्यात्कल्प्यतां वाचकोऽपरः ॥१॥ अदृष्टसङ्गतत्वेन सर्वेषां तुल्यता यदा। अर्थवान्पूर्वदृष्टश्चेत्तस्य तावान्क्षणः कुतः॥३॥ द्विस्तावानुपलब्धो हि अर्थवान्सम्प्रतीयते।"
[मी० श्लो० शब्दनि० श्लो० २४८-२५०] इत्यादि तदप्यसारम्। अनुमानवातॊच्छेदप्रसङ्गात् । धूमादिलिङ्गात्पूर्वोपलब्धधूमादिसादृश्यतोन्यादिसाध्यप्रतिपत्तावप्यस्य २० सर्वस्य समानत्वात्। ___एतेनैवमपि प्रत्युक्तम्
"शब्दं तावदनुच्चार्य सम्बन्धकरणं कुतः। न चोच्चारितनष्टस्य सम्बन्धेन प्रयोजनम् ॥”
[मी० श्लो० शब्दनि० श्लो० २५६] इत्यादि । २५ यतोऽदृष्टे धूमे सँम्बन्धो न शक्यते कर्तुम् । नापि दृष्टनष्टस्यास्य सम्बन्धेन प्रयोजनं किञ्चित् ।
१ शब्दपक्षे शब्दसामान्यमेवार्थप्रतिपत्तिकारणमिति वाच्यम् । २ धूमसामान्यात् । ३ सादृश्यपरिणामविशिष्ट व्यक्तिरेव मात्रा स्वरूपं ययोः साध्यसाधनयोस्तयोः । ४ साध्यसाधनयोः । ५ शब्दस्योच्चारणसमये, अग्न्यायनुमानसमये च। ६ विशेष पर्वतादौ। ७ सामान्यस्य । ८ नहीत्यादिपूर्वोक्तस्य । ९ संकेतकालोपलब्धशम्देन व्यवहारकालोपलब्धशब्दस्य । १० तदेति शेषः । कथमवाचक इत्युक्त कस्येत्याह । कस्य संकेतकालोपलब्धस्य । ११ व्यवहारकालोपलब्धः शब्दः । १२ भदृष्टसंवन्धेन। १३ शब्दानाम् । १४ वाच्यवाचकसंबन्धवान् शन्दः । १५ दिकरम् । १६ वाध्येन सह। १७ साध्ये नामिना सह ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org