SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ४०८ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० कश्चिदाह-न तत्र सवितेक्ष्यते तस्य नभसि व्यवस्थानात्, तैनिमित्तानि तु तेषु प्रतिबिम्बानि प्रतीयन्ते, ततो नानेकान्तः । "आहैकेन निमित्तेन प्रतिपात्रं पृथक् पृथक् । भिन्नानि प्रतिबिम्बानि गृह्यन्ते युगपन्मया ॥१॥" [मी० श्लो० शब्दनि० श्लो० १७९] एतत्कुमारिलः परिहरन्नाह "अत्र ब्रूमो यदा यावजले सौर्येण तेजसा । स्फुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ॥१॥ खदेशमेव गृह्णाति सवितारमनेकधा। भिन्नमूर्ति यथापात्रं तदास्यानेकता कुतः ॥२॥" [मी० श्लो० शब्दनि० श्लो० १८०-१८१] - यथा च प्रदीपः। "ईषत्सम्मिलितेऽङ्गुल्या यथा चक्षुषि दृश्यते । पृथगेकोपि भिन्नत्वाञ्चक्षुर्वृत्तेस्तथैव नः॥१॥ अन्ये तु चोदयन्त्यत्र प्रतिबिम्बोदयैषिणः। स एव चेत्प्रतीयेत कस्मान्नोपरि दृश्यते ॥२॥ कूपादिषु कुतोऽधस्तात्प्रतिबिम्बाद्विनेक्षणम् । प्रामुखो दर्पणं पश्यन् स्याञ्च प्रत्यङ्मुखः कथम् ॥३॥ तत्रैव बोधयेदर्थ बहिर्यातं यदीन्द्रियम् । तत एतद्भवेदेवं शरीरे तत्तु बोधकम् ॥ ४॥" [मी० श्लो० शब्दनि० श्लो० १८२-१८५] अत्राह“अप्सूर्यदर्शिनां नित्यं द्वेधा चक्षुः प्रवर्त्तते । एकमूर्द्धमधस्ताच्च तत्रोवाशप्रकाशितम् ॥ १॥ अधिष्ठानानृजुत्वाच्च नात्मा सूर्य प्रपद्यते । पारम्पयर्पितं स तमर्वाग्वृत्या तु बुध्यते ॥२॥ २५ . १ जैनादिः। २ स सूर्यो निमित्तं येषां तानि। ३ सूर्येण। ४ नानात्वेन । ५ क्रियाविशेषणमेतत् । ६ पात्राण्यनतिक्रम्य । ७ यदा इंश्यते । ८ अग्रेतनश्लोकान्तर्यथाशब्द: केन सह सबन्धनीय इत्यन्वयार्थों 'यथा च प्रदीप:' शब्द उक्तः । .९ एक एव सविता नाना कथं दृश्यते इत्याह ईषदिति । १० नानारूपेण । ११ चक्षुःप्रवृत्तिर्नानारूपास्ति यत इत्यर्थः। १२ नः अस्माकमपि, तथैव-प्रदीपप्रकारेणैव । एकोप्यादित्यो नानात्वेन दृश्यते चक्षुषः प्रवृत्तेभिन्नत्वात् । १३ कूपादिषु कुत इत्यस्य समाधानमिदमतनम् ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy