________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० किमर्थापत्त्या ? अर्थापत्तेश्चेत् ; न; इतरेतराश्रयानुषङ्गात्-अर्थापत्तितो हि पुरुषाभावसिद्धावप्रामाण्याभावसिद्धिः, तत्सिद्धौ चार्थापत्तितः पुरुषाभावसिद्धिरिति ।
द्वितीयपक्षोप्ययुक्तः, अतीन्द्रियार्थप्रतिपादनलक्षणार्थस्यागमा५न्तरेपि सम्भवात् । । परार्थशब्दोच्चारणान्यथानुपपत्तेनित्यो वेदः, इत्यप्यसमीचीनम् ; धूमादिवत्सादृश्यादप्यर्थप्रतिपत्तेः प्रतिपादयिष्यमाणत्वात् ।
किञ्च, अपौरुषेयत्वं प्रसज्यप्रतिषेधरूपं वेदस्याभ्युपगम्यते, पर्युदासस्वभावं वा? प्रथमपक्षे तत्किं सदुपलम्भकप्रमाणग्राह्यम् , १० उताऽभावप्रमाणपरिच्छेद्यम्? तत्राद्यः पक्षोऽयुक्तः; सदुपलम्भकप्रमाणपञ्चकस्यापौरुषेयग्राहकत्वप्रतिषेधात् । तद्राह्यस्य तुच्छखभावाभावरूपत्वानुपपत्तेश्च । प्रतिक्षिप्तश्च तुच्छस्वभावाभावः प्राक्प्रबन्धेन । द्वितीयपक्षस्तु श्रद्धामात्रगम्यः, अभावप्रमाण
स्याऽसम्भवतस्तेन तद्हणानुपपत्तेः । तदसम्भवश्च तत्सामग्री१५ स्वरूपयोः प्राक्प्रबन्धेन प्रतिषिद्धत्वात्सिद्धः।
अथ पर्युदासरूपं तदभ्युपगम्यते । नन्वत्रापि किं पौरुषेयत्वादन्यत्पर्युदासवृत्त्याऽपौरुषेयत्वशब्दाभिधेयं स्यात् ? तत्सत्त्वमिति चेत्, तत्किं निर्विशेषणम् , अनादिविशेषणविशिष्टं वा? प्रथमपक्षे सिद्धसाध्यता; ततोऽन्यस्य वेदसत्त्वमात्रस्याध्यक्षादिप्रमाणप्रसि२०द्धस्यास्माभिरभ्युपगमात् । पौरुषेयत्वं हि कृतकत्वम् , ततश्चान्य
त्सत्त्वमित्यत्र को वै विप्रतिपद्यते? द्वितीयपक्षः पुनरविचारितरमणीयः; वेदानादिसत्त्वे प्रत्यक्षादिप्रमाणतः प्रसिद्ध्यसम्भवस्याऽ. नन्तरमेव प्रतिपादितत्वात् ।
अस्तु वाऽपौरुषेयो वेदः, तथाप्यसौ व्याख्यातः, अव्याख्यातो २५ वा स्वार्थे प्रतीतिं कुर्यात् ? न तावदव्याख्यातः; अतिप्रसङ्गात् । व्याख्यातश्चेत्, कुतस्तद्याख्यानम्-खतः, पुरुषाद्वा? न तावस्वतः; 'अयमेव मदीयपदवाक्यानामर्थो नायम्' इति स्वयं वेदेनाऽप्रतिपादनात् , अन्यथा व्याख्याभेदो न स्यात् । पुरुषाच्चेत्, कथं तद्व्याख्यानात्पौरुषेयादर्थप्रतिपत्तौ दोषाशङ्का न स्यात् ? ३० पुरुषा हि विपरीतमप्यर्थ व्याचक्षाणा दृश्यन्ते । संवादेन प्रॉमा
१ इति । २ नित्यत्वादपौरुवेयत्वम् । ३ वेदे। ४ जैनैः। ५ द्विजवत्सौगतानाप्यर्थप्रतीति कुर्यात् । ६ वेदस्य जडत्वेन वक्तुमशक्यत्वात्। ७ यदि वेदः प्रतिपादयति । ८ भवनाविधिनियोगादिः। ९ व्याख्यानानाम् । १० व्याख्यानानाम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org