________________
सू० ३।९९] वेदापौरुषेयत्वविचारः
४०१ ग्याभ्युपगमे च अपौरुषेयत्वकल्पनाऽनर्थिका तद्वद्वेदस्यापि प्रमाणान्तरसंवादादेव प्रामाण्योपपत्तेः । न च व्याख्यानानां संवादोऽस्ति; परस्परविरुद्धभावनानियोगादिव्याख्यानानामन्योन्यं विसंवादोपलम्भात्।
किञ्च, असौ तद्व्याख्याताऽतीन्द्रियार्थद्रष्टा, तद्विपरीतो वा१५ प्रथमपक्षे अतीन्द्रियार्थदर्शिनः प्रतिषेधविरोधो धर्मादौ चास्य प्रामाण्योपपत्तेः "धर्मे चोदनैव प्रमाणम्" [
] इत्यवधारणानुपपत्तिश्च ।
अथ तैद्विपरीतः, कथं तर्हि तयाख्यानाद्यथार्थप्रत्तिपत्तिः अय. थार्थाभिधानाशङ्कया तदनुपपत्तेः? न च मन्वादीनां सातिशय-१० प्रज्ञत्वात्तद्व्याख्यानाद्यथार्थप्रतिपत्तिः, तेषां सातिशयप्रज्ञत्वासिद्धेः। तेषां हि प्रज्ञातिशयः स्वतः, वेदार्थाभ्यासात्, अदृष्टात्, ब्रह्मणो वा स्यात् ? खतश्चेत् ; सर्वस्य स्याद्विशेषाभावात् । वेदार्थाभ्यासाचेत् किं ज्ञातस्य, अज्ञातस्य वा तदर्थस्याभ्यासः स्यात् ? न तावदज्ञातस्याऽतिप्रसङ्गात् । ज्ञातस्य चेत् कुतस्तज्ज्ञप्तिः-खतः,५१ अन्यतो वा? स्वतश्चेत्; अन्योन्याश्रयः-सति हि वेदार्थाभ्यासे खतस्तत्परिज्ञानम्, तसिंश्च तदर्थाभ्यास इति । अन्यतश्चेत् । तस्यापि तत्परिज्ञानमन्यत इत्यतीन्द्रियार्थदर्शिनोऽनभ्युपगमेऽ. न्धपरम्परातो यथार्थनिर्णयानुपपत्तिः। . अदृष्टोपि प्रज्ञातिशयाऽसाधकः, तस्यात्मान्तरेपि सम्भवात् ।२०. न तथाविधोऽदृष्टोऽन्यत्र मन्वादावेवास्य सम्भवादिति चेत् । कुतोऽत्रैवास्य सम्भवः? वेदार्थानुष्ठानविशेषाञ्चेत् । स तर्हि वेदार्थस्य ज्ञातस्य, अज्ञातस्य वाऽनुष्टाता स्यात् ? अज्ञातस्य चेत्, अतिप्रसङ्गः । ज्ञातस्य चेत्, परस्पराश्रयः-सिद्धे हि वेदार्थज्ञानातिशये तदानुष्ठानविशेषसिद्धिः, तत्सिद्धौ च तज्ज्ञानाति-२५ शयसिद्धिरिति । . ब्रह्मणोपि वेदार्थज्ञाने सिद्ध सत्यऽतो मन्वादेस्तदर्थपरिज्ञानातिशयः स्यात् । तच्चास्य कुतः सिद्धम् ? धर्मविशेषाञ्चेत्, स
. १ प्रत्यक्षग्राह्यर्थे प्रत्यक्षं संवादकमनुमेयेथे अनुमानमेव संवादकं परोक्षेऽर्थे पूर्वापराविरोधः संवादः। २ मीमांसकमते। ३ तस्मादतीन्द्रियार्थद्रष्टुः । ४. अतीन्द्रिन्यार्थद्रष्टुर्विपरीतस्य किञ्चिज्ज्ञस्य । ५ गोपालादीनामपि वेदार्थस्याभ्यासप्रसङ्गात् । ६ पुरुषात् । ७ परस्य तव । ८ भवेत् । ९ प्रज्ञातिशयसाधकः। १० प्रज्ञातिशयसाधकादृष्टस्य । ११ प्रशातिशयसाधकादृष्टस्य । १२ गोपालादीनामपि वेदार्थानुष्ठानप्रसङ्गः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org