________________
वेदापौरुषेयत्वविचारः
३९९
सू० ३।९९]
इत्यपि प्रत्युक्तम् प्राक्तनानुमानद्वयोक्ताशेषदोषाणामत्राप्य विशेषात् । आगमान्तरेप्यस्य तुल्यत्वाच्च ।
किञ्च, इदानीं यथाभूतो वेदाकरणसमर्थपुरुषयुक्तस्तत्केर्टपुरुषरहितो वा कालः प्रतीतोऽतीतोऽनागतो वा तथाभूतः कालत्वात्साध्येत, अन्यथाभूतो वा ? यदि तथाभूतः तदा सिद्ध-५ साध्यता । अथान्यथाभूतः तदा सन्निवेशादिवदऽप्रयोजको हेतुः । अथ तथाभूतस्यैवातीतस्यानागतस्य वा कालस्य तद्रहितत्वं साध्यते, न च सिद्धसाध्यताऽन्यथाभूतस्य कालस्यासम्भवात् । नन्वन्यथाभूतः कालो नास्तीत्येतत्कुतः प्रमाणात्प्रतिपन्नम् ? यद्यन्यतः तर्हि तत एवापौरुषेयत्वसिद्धेः किमनेन ? अत एवेति १० चेत्; ननु 'अन्यथाभूतकालाभावसिद्धावतोऽनुमानात्तद्रे हितत्वसिद्धि:, तत्सिद्धेश्वान्यथाभूतकालाभावसिद्धिः' इत्यन्योन्याश्रयः ।
नाप्यागमतोऽपौरुषेयत्वसिद्धिः; इतरेतराश्रयानुषङ्गात् । तथाहि-आगमस्याsपौरुषेयत्वसिद्धावप्रामाण्याभावसिद्धिः, तत्सिद्धेवातोऽपौरुषेयत्वसिद्धिरिति । न चाऽपौरुषेयत्वसिद्धिरिति । न १५ चाsपौरुषेयत्वप्रतिपादकं वेदवाक्यमस्ति । नापि विधिवाक्यादsपैरस्य परैः प्रामाण्यमिष्यते, अन्यथा पौरुषेयत्वमेव स्यात्तत्प्रतिपादकानां " हिरण्यगर्भः समवर्तताग्रे” [ ऋग्वेद अष्ट० ८ मं० १० सू० १२१ ] इत्यादिप्रचुरतरवेदवाक्यानां श्रवणात् ।
अपौरुषेयत्वधर्माधारतया प्रमाणप्रसिद्धस्य कस्यचित्पदवाक्या - २० देरसम्भवान्न तत्सादृश्येनोपमानादप्यपौरुषेयत्वासिद्धिः ।
नाप्यर्थापत्तेः;
अपौरुषेयत्वव्यतिरेकेणानुपपद्यमानस्यार्थस्य कस्यचिदप्यभावात् । स प्रामाण्याभावलक्षणो वा स्यात्, अतीन्द्रियार्थप्रतिपादनस्वभावो वा परार्थशब्दोच्चारणरूपो वा ? न तावदाद्यः पक्षः; अप्रामाण्याभावस्यागमान्तरेपि तुल्यत्वात् । न २५ चासौ तत्र मिथ्या; वेदेपि तन्मिथ्यात्वप्रसङ्गात् । अथागमान्तरे पुरुषस्य कर्तुरभ्युपगमात् पुरुषाणां तु रागादिदोषदुष्टत्वेन तजनितस्याप्रामाण्यस्यात्र सम्भवात्तत्रासौ मिथ्या, न वेदे तत्राप्रामाण्योत्पादकदोषाश्रयस्य कर्त्तुरभावात् । नन्वत्र कुतः कर्तुर भावो निश्चितः ? अन्येतः, अत एव वा ? यद्यन्यतः; तदेवोच्यताम्, ३०
१ कालस्वादित्यनेनानुमानेन पौरुषेयत्वसाधकानुमानस्य स्वरूपं बाध्येत विषयो वेत्यादिप्रकारेण । २ वेद । ३ साधनात् । ४ तेन वेदकर्त्रा । ५ वेदकत्र । ६ अस्तु या वेदवाक्यमपौरुषेयत्वप्रतिपादकं तथापि । ७ प्रतिषेधवाक्यादेः । ८ मीमांसकेः । ९ अपरस्य प्रामाण्यं यदीष्यते । १० जातः । ११ आदौ । १२ प्रमाणात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org