________________
३९८
[ ३. परोक्षपरि०
माण्याभावः स्यात्, तदभावाचे तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्येन सर्वपुरुषाणामीदृशत्वसिद्धिरित ( रितीत) रेतराश्रयः । तन्न निर्विशेषणोयं हेतुः प्रकृतसाध्यसाधनः ।
प्रमेयकमलमार्त्तण्डे
"
अथ सविशेषणः; तदा विशेषणस्यैव केवलस्य गमकत्वाद्विशे५ ष्योपादानमनर्थकम् । भवतु विशेषणस्यैव गमकत्वम् का नो हानिः सर्वथाऽपौरुषेयत्वसिद्ध्या प्रयोजनात् तदप्ययुक्तम् ; यतः कर्त्रऽस्मरणं विशेषणं किमभावाख्यं प्रमाणम्, अर्थापत्तिः, अनुमानं वा ? तत्राद्यः पक्षो न युक्तः; अभावप्रमाणस्य स्वरूपसामग्रीविषयाऽनुपपत्तितः प्रामाण्यस्यैव प्रतिषिद्धत्वात् । १० किञ्च, सदुपलम्भकप्रमाणपञ्चकनिवृत्तिनिबन्धनास्य प्रवृत्तिः " प्रमाणपञ्चकं यत्र" [ मी० श्लो० अभाव० श्लो० १] इत्याद्यभिधानात् । न च प्रमाणपञ्चकस्य वेदे पुरुषसद्भावावेदकस्य निवृत्तिः, पदवाक्यत्वलक्षणस्य पौरुषेयत्वप्रसाधकत्वेनानुमानस्य प्रतिपादनात् । न चास्याप्रामाण्यमभिधातुं शक्यम्; यतोऽ१५ स्याप्रामाण्यम् - किमनेन बोधितत्वात्, साध्याविनाभावित्वाभावाद्वा स्यात् ? तत्राद्यपक्षे चक्रकप्रसङ्गः; तथाहि -ने यावदभावप्रमाणप्रवृत्तिर्न तावत्प्रस्तुतानुमानबाधा, यावच्च न तस्य बाधा न तावत्सदुपलम्भकप्रमाणनिवृत्तिः, यावच्च न तस्य निवृत्तिर्न तावत्तन्निबन्धनाऽभावाख्यप्रमाणप्रवृत्तिः, तदप्रवृत्तौ च नानु२० मानवाघेति । द्वितीयपक्षस्त्वयुक्तः स्वसाभ्याविनाभावित्वस्यात्र सम्भवात् । न खलु पदवाक्यात्मकत्वं पौरुषेयत्वमन्तरेण क्वचिदृष्टं येनास्य स्वसाध्या विनाभावाभावः स्यात् ।
ऐतेन कर्तुरस्मरणमन्यनुपपद्यमानं कर्त्रऽभावनिश्चायकमैथपत्तिगम्यमपौरुषेयत्वं वेदानामित्यपास्तम्; अन्यथानुपपद्यमान२५त्वासम्भवस्या प्रागेव प्रतिपादितत्वात् । कर्त्र ऽस्मरणमनुमानरूपPostedवं प्रसाधयतीत्यप्यनुपपन्नम् प्रागेव कृतोत्तरत्वात् ।
|
एतेन -
"अतीतानागतौ कालौ वेदकारविवर्जितौ । कालत्वात्तथा कालो वर्त्तमानः समीक्ष्यते ॥ १ ॥ [ ]
१ अप्रामाण्याभावात् । २ अनुमानबाघेति । ३ कथम् ? । ४ एव । ५ अभावप्रमाणप्रवृत्तौ प्रस्तुतानुमानबाधा तस्यां सदुपलम्भकप्रमाणनिवृत्तिस्तस्यां च पदवाक्यत्वस्य स्वसाध्याविनाभावित्वमिति समर्थनपरेण ग्रन्थेन । ६ अपौरुषेयत्वं विना । ७ वेदोऽपौरुषेयः कर्त्रऽमरणान्यथानुपपत्तेः । ८ कर्तृस्मरणादित्यत्र । ९ पिटकादौ । १० वटे वटे वैभवण इत्यादिनाऽनैकान्तिकसमर्थनेन ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org