________________
सू० ३।९९]
वेदापौरुषेयत्वविचारः
३९७
किञ्च, येथाभूतानां पुरुषाणामध्ययनपूर्वकं दृष्टं तथाभूतानामेवाध्ययनशब्दवाच्यत्वमध्ययनपूर्वकत्वं साधयति, अन्यथाभूतानां वा ? यदि तथाभूतानां तदा सिद्धसाधनम् । अथान्यथाभूतानां तर्हि सन्निवेशादिवदऽप्रयोजको हेतुः । अथ तथाभूतानामेव तत्तथा ततः साध्यते, न च सिद्धसाधनं सर्वपुरुषाणामतीन्द्रियार्थ ५ दर्शनशक्तिवैकल्येनातीन्द्रियार्थप्रतिपादकप्रेरणाप्रणेतृत्वासामर्थ्यनेदृशत्वात् । तदप्यसाम्प्रतम् ; यतो यदि प्रेरणायास्तथाभूतार्थप्रतिपादने अप्रामाण्याभावः सिद्धः स्यात् स्यादेतत्-यीवता गुणवद्वत्रऽभावे तगुणैरनिराकृतैर्दोषैरपोहितत्वात् तत्र सापवाद प्रामाण्यम्, तथाभूतां प्रेरणामतीन्द्रियार्थदर्शनशक्तिविरहिणोपि १० कर्त्तुं समर्था इति कुतस्तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्येनाऽशेषपुरुषाणामीदृशत्वसिद्धिर्यतः सिद्धसाधनं न स्यात् ?
अथ न गुणवद्वकत्वेनैव शब्देऽप्रामाण्यनिवृत्तिरपौरुषेयत्वेनाप्यस्याः सम्भवात् तेनायमदोषः । तदुक्तम्
१७.
"शब्दे दोषो वस्तावद्वधीन इति स्थितम् । तदभावः कचित्तावहुणवद्वकत्वतः ॥ १ ॥ तहुणैरंपकृष्टीनां शब्दे सङ्क्रान्त्यऽसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषी निश्रियाः ॥ २ ॥” [ मी० श्लो० सू० २ श्लो० ६२-६३ ]
इति । तदप्यसमीचीनम् ; यतोऽपौरुषेयत्वमस्याः किमन्यतः २० प्रमाणात्प्रतिपन्नम्, अत एव वा ? यद्यन्यतः तदाऽस्यें वैयर्थ्यम् । अत एव चेत्; नन्वेंतोऽनुमानादपौरुषेयत्वसिद्धौ प्रेरणायामप्रा
१ अधुनातनसदृशानाम् । २ अस्माभिरपि तथाभूतानां गुर्वऽध्ययनपूर्वकत्वं प्रतिपाद्यते । ३ अतीन्द्रियार्थदर्शिनाम् । ४ आदिना कार्यत्वादिवत् । ५ अकिञ्चित्करो हेतुस्तेषां गुर्वध्ययन पूर्वकत्वं नास्ति यतः । ६ सपक्षव्यापकपक्षव्यावृत्तो छुपाध्याहितसम्बन्धो हेतुरप्रयोजकः। ७ जैनानां तु मते सर्वपुरुषाणामतीन्द्रियार्थदर्शने शक्तिवैकल्यं नास्ति केषाञ्चिदतीन्द्रियार्थदर्शनशक्तिरस्तीति भावः । ८ अग्निष्टोमेन यजेतेति लिङादि • श्रवणानन्तरं शब्दो मां प्रेरयतीति दर्शनात् प्रेरणान्विततया कृति: ( यागः ) प्रतीयते । सा च प्रेरणा वेद इत्यर्थः । ९। १० न कुतोपि । ११ येन कारणेन । - १२ प्रामाण्यनिराकृतत्वात् । १३ सदोषम् । १४ अप्रामाण्यभूताम् । १५ सङ्क्रमः । १६ न तु स्वभावतः । १७ अपौरुषेय वेदवाक्यानन्तरोत्पन्नेषु स्मृतिवाक्येषु । १८ एतदेव समर्थयत्यये । १९ अपौरुषेयवेदे । २० निराकृतानाम् । २१ असंबन्धादयः । | २२ आश्रयः पुरुषः । २३ वेदाध्ययनवाच्यत्वादिति । २४ वेदाध्ययनवाच्यत्वस्य । २५ वेदाध्ययनवाच्यत्वात् । २६ वेदाध्ययनवाच्यत्वात् ।
प्र० क० मा० ३४
Jain Educationa International
१५
For Personal and Private Use Only
www.jainelibrary.org