________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तदयुक्तम् ; यथैव हि प्रकृतहेतोः सद्भावे पौरुषेयत्वसाधकहेतोरप्रवृत्तिरभिधीयते तथा पदवाक्यत्वलक्षणहेतुसद्भावे सत्यमर्यमाणकर्तृकत्वस्याप्यप्रवृत्तिरस्तु विशेषाभावात् । तन्न स्वतन्त्रसाधनमिदम्। ५ नापि प्रसङ्गसाधनम्। तत्खलु 'पौरुषेयत्वाभ्युपगमे वेदस्य तत्कर्तुः पुरुषस्य स्मरणप्रसङ्गः स्यात्' । इत्यनिष्टापादनस्वभावम् । न च कर्तृस्मरणं परस्यानिष्टम्; स हि पदवाक्यत्वेन हेतुना तत्कर्तुः स्मरणं प्रतीयन् कथं तत्स्मरणस्याऽनिष्टतां ब्रूयात् ?
पौरुषेयत्वसाधनानुमानबाधापक्षेपि किमनेनास्य स्वरूपं बाध्यते, २० विषयो वा? न तावत्स्वरूपम्; अपौरुषेयत्वानुमानस्याप्यनेन
खरूपबाधनानुषङ्गात् , तयोस्तुल्यबलत्वेनान्योन्यं विशेषाभावात् । अतुल्यबलत्वे वा किमनुमानबाधया? येनैव दोषेणास्याऽतुल्यबलत्वं तत एवाप्रामाण्यप्रसिद्धः। विषयबाधाप्यनुपपन्ना; तुल्य
बलत्वेन हेत्वोः परस्परविषयप्रतिबन्धे वेदस्योभयधर्मशून्यत्वा१५नुषङ्गात्। एकस्य वा स्वविषयसाधकत्वेऽन्यस्यापि तत्प्रसङ्गाद्
धर्मद्वयात्मकत्वं स्यात् । अतुल्यबलत्वे तु यत एवातुल्यबलत्वं तत एवाऽप्रामाण्यप्रसिद्धः किमनुमानबाधयेत्युक्तम् ।
- एतेने
"वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् । २०. वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा" [मी० श्लो० अ०७
श्लो०:५५] इत्यनेनानुमानेन पौरुषेयत्वप्रसाधकानुमानस्य बाधा; इत्यपि प्रत्याख्यातम् ; प्रकृतदोषाणामत्राप्यविशेषात् । • किञ्च, अत्र निर्विशेषणमध्ययनशब्दवाच्यत्वमपौरुषेयत्वं प्रति
पादयेत् , कञऽस्मरणविशिष्टं वा? निर्विशेषणस्य हेतुत्वे निश्चित२५ कर्तृकेषु भारतादिष्वपि भावादनैकान्तिकत्वम् ।
१ प्रकृतहेती सति पदवाक्यत्वं हेत्वन्तरं न प्रवर्तते । पदवाक्यत्वे तु सत्यपि प्रकृतो हेतुः वर्तते इति योऽसौ विशेषस्तस्याभावात् । २ वेदः स्मर्यमाणकर्तृकः पौरुषेयत्वाद्भारतवत् । हेतुरूपव्याप्याभ्युपगमेनानिष्टस्य साध्यरूपव्यापकाभ्युपगमस्यापादनं प्रसङ्गः। ३ जैनस्य । ४ जानन् । ५ पदवाक्यत्वलक्षण ! ६ पौरुषेयत्वाऽपौरुषेयत्वानुमानयोः। ७ पौरुषेयत्वलक्षणस्य विषयस्य । ८ पदवाक्यत्वाऽस्मर्यमाणकर्तृकल्वलक्षणयोः। ९ अपौरुषेयत्वपौरुषेयत्वलक्षण। १० पौरुषेयत्वाऽपौरुषेयत्वलक्षण । ११ वेदस्य । १२ अमर्यमाणकर्तृकत्वानुमानस्यापौरुषेयत्वप्रसाधनानुमान प्रति बाधकत्वानिराकरणपरेण ग्रन्थेन। १३ विशेषणमेतत् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org