________________
सू० ३।९९] वेदापौरुषेयत्ववादः
यच्चोक्तम्-तदनुष्ठानसमय इत्यादिः तदागमान्तरेपि समानम् । 'नच' इति चिन्त्यताम्-न चायं नियमः-'अनुष्ठातारोऽभिप्रेतार्थानुष्ठानसमये तेत्कर्तारमनुस्मृत्यैव प्रवर्त्तन्ते । न खलु पाणिन्यादिप्रणीतव्याकरणप्रतिपादितशाब्दव्यवहारानुष्ठानसमये तदर्थानुष्ठातारोऽवश्यन्तया व्याकरणप्रणेतारं पाणिन्यादिकमनुस्मृत्यैव प्रव-५ र्तन्त इति प्रतीतम् । निर्चिततत्समयानां कर्तृस्मरणव्यतिरेकेणाप्याशुतरं भवत्यादिसाधुशब्दोपलम्भात् । तन्न भवत्सम्बन्धिप्रत्यक्षेणानुभवाभावात् तत्र तच्छिन्नमूलम् ।
नापि सर्वसम्बन्धिप्रत्यक्षेण; तेन ह्यनुभवाभावोऽसिद्धः । न ह्याग्दृशां 'सर्वेषां तंत्र कर्तृग्राहकत्वेन प्रत्यक्ष न प्रवर्त्तते' इत्यव-१० सातुं शक्यमिति तंत्र तत्स्मरणस्य छिन्नमूलत्वासिद्धरस्मर्यमाणकर्तृकत्वादित्यसिद्धो हेतुः।
अथ प्रमाणान्तरेणानुभवाभावः, तन्न; अनुमानस्य आगमस्य च प्रमाणान्तरस्य तत्र कर्तृसद्भावावेदकस्य प्राक्प्रतिपादितत्वात् ।
किञ्च, अस्मर्यमाणकर्तृकत्वं वादिनः, प्रतिवादिनः, सर्वस्य वा१५ स्यात् ? वादिनश्चेत्, तदनैकान्तिकं “सा ते भवतु सुप्रीता" [ ] इत्यादौ विद्यमानकर्तृकेप्यस्य सम्भवात् । प्रतिवादिनश्चेत्, तदसिद्धम्। तत्र हि प्रतिवादी स्मरत्येव कर्तारम् । एतेन सर्वस्यास्मरणं प्रत्याख्यातम् । सर्वात्मज्ञानविज्ञानरहितो वा कथं सर्वस्य तंत्र कऽस्मरणमवैति? ।
किञ्च, अतः स्वातन्येणापौरुषेयत्वं साध्येत, पौरुषेयत्वसाधनमनुमानं वा बाध्येत? प्राच्यविकल्पे स्वातम्येणापौरुषेयत्वस्यादः साधनम् , प्रसङ्गो वा ? स्वातन्यपक्षे नाऽतोऽपौरुषेयत्वसिद्धिः पदवाक्यत्वतः पौरुषेयत्वप्रसिद्धः । अतो न ज्ञायते किमस्मर्यमाणकर्तृत्वादपौरुषेयो वेदः पद्वाक्यात्मकत्वात्पौरुषेयो वा? न२५ च सन्देहहेतोः प्रॉमाण्यम्।
ननु न प्रकृतोद्धेतोः सन्देहोत्पत्तियनास्याऽप्रामाण्यम् किन्तु प्रतिहेतुतः, तस्य चैतस्मिन्सत्यऽप्रवृत्तेः कथं संशयोत्पत्तिः?
१ अभिप्रेतार्थप्रतिपादकवाक्य । २ भवतीत्यादि । ३ उच्चारण । ४ अस्य शब्दस्यायमर्थ इति । ५ सङ्केतानाम् । ६ तस्मात् । ७ असर्वशानाम् । ८ वेदे । ९ वेदे । १. प्रसन्ना । ११ वेदे। १२ वेदे । १३ अमर्यमाणकर्तृकत्वात् । १४ अमर्यमाणकर्तृकत्वादिति । १५ साधनम् । १६ अमर्यमाणकर्तृकत्वात् । १७ कारणस्य । १८ अमर्यमाणकर्तृत्वस्य । १९ अपौरुषेयत्वलक्षणस्वसाध्यसाधकस्य । २० अमर्यमाणकर्तृत्वादिति । २१ विप्रतिकूलहेतुतः। . . . .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org