SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० ननु यद्यव्युत्पन्नानां व्युत्पत्त्यर्थं दृष्टान्तादियुक्तो हेतुप्रयोगस्तर्हि व्युत्पन्नानां कथं तत्प्रयोग इत्याहव्युत्पन्नप्रयोगस्तु तथोपपत्त्याऽन्यथाऽ नुपपत्त्यैव वा ॥ ९४ ॥ ५ एतदेवोदाहरणद्वारेण दर्शयति अग्निमानयं देशस्तथा धूमवत्त्वोपपत्तेधूम___ वत्त्वान्यथानुपपत्तेर्वा ॥ ९५॥ कुतो व्युत्पन्नानां तथोपपत्त्यन्यथाऽनुपपत्तिभ्यां प्रयोगनियम इत्याशक्य हेतुप्रयोगो हीत्याद्याह१० हेतुप्रयोगो हि यथाव्याप्तिग्रहणं विधीयते, सा च तावन्मात्रेण व्युत्पन्नै रवधार्यते इति ॥ ९६ ॥ - यतो हेतोः प्रयोगो व्याप्तिग्रहणानतिक्रमेण विधीयते । सा च व्याप्तिस्तावन्मात्रेण तथोपपत्त्यन्यथानुपपत्तिप्रयोगमात्रेण व्युत्प१५ नैनिश्चीयते इति न दृष्टान्तादिप्रयोगेण व्याप्त्यवधारणार्थेन किश्चिप्रयोजनम् । नापि साध्यसिद्ध्यर्थं तत्प्रयोगः फलवान् तावतैव च साध्यसिद्धिः ॥ ९७ ॥ यतस्तावतैव चकार एवकारार्थे निश्चितविपक्षासम्भवहेतुः २० प्रयोगमात्रेणैव साध्यसिद्धिः। तेन पक्षः तदाधारसूचनाय उक्तः ॥ ९८ ॥ तेन पक्षो गम्यमानोपि व्युत्पन्नप्रयोगे तदाधारसूचनाय साध्याधारसूचनायोक्तः। यथा च गम्यमानस्यापि पक्षस्य प्रयोगो नियमेन कर्त्तव्यस्तथा प्रागेव प्रतिपादितम् । २५ अथेदानीमवसरप्राप्तस्यागमप्रमाणस्य कारणखरूपे प्ररूपयनातेत्याद्याह १ अग्निमत्ते सति । २ अनुमानप्रमाणप्रतिपादनानन्तरम् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy