________________
वेदापौरुषेयत्ववादः
३९१
お
आप्तवचनादिनिबन्धनमर्थज्ञानमागमः ॥ ९९ ॥
सू० ३।९४-९९]
आप्तेन प्रणीतं वचनमाप्तवचनम् | आदिशब्देन हस्तसंज्ञादिपरिग्रहः । तैन्निबन्धनं ययें तत्तथोक्तम् । अनेनाक्षरश्रुतमनक्षरश्रुतं च सङ्गृहीतं भवति । अर्थज्ञानमित्यनेन चान्यापोहज्ञानस्य शब्दसन्दर्भस्य चागमप्रमाणव्यपदेशाभावः । शब्दो हि प्रमाणे- ५ कारणकार्यत्वादुपचारत एव प्रमाणव्यपदेशमर्हति ।
ननु चातीन्द्रियार्थस्य द्रष्टुः कस्यचिदाप्तस्याभावात् तत्राऽपौरुबेयस्यागमस्यैव प्रामाण्यात् कथमाप्तवचननिबन्धनं तेंद् ? इत्यपि मनोरथमात्रम् अतीन्द्रियार्थद्रष्टुर्भगवतः प्राक्प्रसाधितत्वात्, अगमस्य चाऽपौरुषेयत्वासिद्धेः । तद्धि पदस्य, वाक्यस्य, वर्णानां १० वाऽभ्युपगम्येत प्रकारान्तराऽसम्भवात् ? तत्र न तावत्प्रथमद्वितीयविकल्पौ घटेते; तथाहि वेदपदवाक्यानि पौरुषेयाणि पदवाक्यत्वाद्भारतादिपदवाक्यवत् ।
अपौरुषेयत्वप्रसाधकप्रमाणाभावाच्च कथमपौरुषेयत्वं वेदस्योपपन्नम् ? न च तत्प्रसाधकप्रामाणाभावोऽसिद्धः; तथाहि - तत्प्र - १५ साधकं प्रमाणं प्रत्यक्षम्, अनुमानम्, अर्थापत्त्यादि वा स्यात् ? न तावत्प्रर्त्यैक्षम् तस्य शब्दस्वरूपमात्रग्रहणे चरितार्थत्वेन पौरुषेयत्वापौरुषेयत्वधर्मग्राहकत्वाभावात् । अनादिसत्त्वस्वरूपं चापौरुषेयत्वं कथमक्षप्रभव प्रत्यक्षपरिच्छेद्यम् ? अक्षाणां प्रतिनियतरूपादिविषयतया अनादिकालसम्बन्धाऽभावतस्तत्सम्बन्ध-२०
१ मुखेन संज्ञा । २ अर्थज्ञानमित्येतावत्युच्यमाने प्रत्यक्षादावतिव्याप्तिरत उक्त वाक्यनिबन्धनमिति । वाक्यनिबन्धनमर्थज्ञानमित्युच्यमानेपि यादृच्छिक संवादिषु विप्रलम्भवाक्यजन्येषु सुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफल संसर्गादिशानेष्वतिव्याप्तिः अत उक्तमाप्तेति । आप्तवाक्यनिबन्धनशानमित्युच्यमाने व्याप्तवाक्यकर्म के ( कारणे ) श्रावणप्रत्यक्षेऽतिव्याप्तिरत उक्तमर्थेति । अर्थस्तात्पर्य रूढः प्रयोजनारूढ इति यावत् । तात्पर्यमेव वचसीत्यभियुक्तवचनात् वचसां प्रयोजनस्य प्रतिपादकत्वात् । ३ आप्तवचनादि। ४ अर्थशानस्य । ५ आदिपदेन । ६ आप्तशब्दोपादानादपौरुषेयव्यवच्छेदः । ७ अन्यस्मात्पदार्थादन्यस्य पदार्थस्यापोहो निराकरणं तस्य व्यावृत्तिरूपापोहविषय एव शब्दो न त्वर्थविषय इति बौद्धः । ८ अगोः व्यावृत्तिगौः । व्यावृत्तिस्तुच्छा अर्थरूपा न भवति । ९ शब्द एवार्थो न बाह्यार्थः । १० ज्ञान । ११ ता । १२ गणधरादिप्रतिपाद्यज्ञानापेक्षया कारणत्वं शब्दस्य ( दिव्यध्वनेः ) । १३ प्रतिपादकशानस्य ( सर्वशशानस्य ) हि कार्य शब्दः । १४ अर्थज्ञानम् । १५ परेण मीमांसकेन ।
१६ श्रवणप्रत्यक्षम् । १७ बसः । १८ ता ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org