SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ खभावानुपलस्तत्वं गमयत भीष्टार्थेन संयो. सू० ३।८०-९३] हेतोः प्रकाराः ३८९ _ दुःखेन हि विरुद्धं सुखम् , तस्य कारणमभीष्टार्थेन संयोगः, तभावस्तद्नुपलब्धिर्दुःखास्तित्वं गमयतीति । विरुद्धस्वभावानुपलब्धिर्यथाअनेकान्तात्मकं वस्त्वेकान्तानुपलब्धेः ॥ ८९ ॥ अनेकान्तेन हि विरुद्धो नित्यैकान्तः क्षणिकैकान्तो वा । तस्य५ चानुपलब्धिः प्रत्यक्षादिप्रमाणेनाऽस्य ग्रहणाभावात्सुप्रसिद्धा ।' यथा च प्रत्यक्षादेस्तद्राहकत्वाभावस्तथा विषयविचारप्रस्तावे विचारयिष्यते। ननु चैतत्साक्षाद्विधौ निषेधे वा परिसङ्ख्यातं साधनमस्तु । यत्तु परम्परया विधेर्निषेधस्य वा साधकं तदुक्तसाधनप्रकारे-१० भ्योऽन्यत्वादुक्तसाधनसङ्ख्याव्याघातकारि छलसाधनान्तरमनु. षज्येत । इत्याशङ्ख्य परम्परयेत्यादिना प्रतिविधत्तेपरम्परया संभवत्साधनमत्रैवान्तर्भावनीयम्॥९० यतः परम्परया सम्भवत्कार्यकार्यादि साधनमैत्रैव अन्तर्भाव. नीयं ततो नोक्तसाधनसङ्ख्याव्याघातः।। तत्र विधौ कार्यकार्य कार्याविरुद्धोपलब्धौ अन्तर्भावनीयम् यथा अभूदत्र चक्रे शिवकः स्थासात् । कार्यकार्यमविरुद्धकार्योपलब्धौ ॥ ९१-९२ ॥ शिवकस्य हि साक्षाच्छत्रकः कार्य स्थासस्तु परम्परयेति। २० निषेधे तु कारणविरुद्धकार्य विरुद्धकार्योपलब्धौ यथाऽन्तर्भाव्य॑ते तद्यथानास्त्यत्र गुहायां मृगक्रीडनं मृगारिशब्दनात्। कारणविरुद्धकार्य विरुद्धकार्योपलब्धौ यथेति ॥ ९३ ॥ २५ मृगक्रीडनस्य हि कारणं मृगः। तेन च विरुद्धो मृगारिः । तत्कार्य च तच्छन्दनमिति । १ एकान्तस्वरूपानुपलब्धेरिति पाठान्तरम् । २ विद्यमानम् । ३ कार्यादिष्वेव । ४ साध्ये। ५ ता । ६ तथा कार्यकार्य कार्याऽविरुद्धोपलब्धावन्तर्भावनीयमिति सम्बन्धः। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy