________________
सू० ३।४२-५१ ] दृष्टान्तादिस्वरूपनिरूपणम्
३७७ गमे, शास्त्र एवासौ तदभ्युपगमः कर्तव्यः न वादेऽनुपयोगात् । न खलु वादकाले शिष्या व्युत्पाद्यन्ते व्युत्पन्नप्रज्ञानामेव वादेऽधिकारात् । शास्त्रे चोदाहरणादौ व्युत्पन्नप्रज्ञा वादिनो वादकाले ये प्रतिवादिनो यथा प्रतिपद्यन्ते तान् तथैव प्रतिपादयितुं समर्था भवन्ति, प्रयोगपरिपाट्याः प्रतिपाद्यानुरोधतो जिनपतिमतानु.५ सारिभिरभ्युपगमात् । तंत्र तयुत्पादनार्थ दृष्टान्तस्य स्वरूपं प्रकारं चोपदर्शयतिदृष्टान्तो द्वेधाऽन्वयव्यतिरेकभेदात् ॥४७॥ दृष्टो हि विधिनिषेधरूपतया वादिप्रतिवादिभ्यामविप्रतिपत्त्या प्रतिपन्नोऽन्तः साध्यसाधनधर्मो यत्रासौ दृष्टान्त इति व्युत्पत्तेः । १० अथ कोऽन्वयदृष्टान्तः कश्च व्यतिरेकदृष्टान्त इति चेत्साध्यव्याप्तं साधनं यत्र प्रदर्यते सोन्वय
दृष्टान्तः ॥४८॥ यथाग्नौ साध्ये महानसादिः । साध्याभावे साधनव्यतिरेको यत्र कथ्यते स १५
व्यतिरेकदृष्टान्तः ॥४९॥ यथा तस्मिन्नेव साध्ये महाह्रदादिः। अथ को नाम उपनयो निगमनं वा किमित्याह
हेतोरुपसंहार उपनयः ॥ ५० ॥
प्रतिज्ञायास्तु निगमनम् ॥ ५१॥ २० प्रतिज्ञायास्तूपसंहारो निगमनम् । उपनयो हि साध्याविनाभावित्वेन विशिष्टे साध्यधर्मिण्युपनीयते येनोपदय॑ते हेतुः सोभिधीयते । निगमनं तु प्रतिज्ञाहेतूदाहरणोपनयाः साध्य. लक्षणैकार्थतया निगम्यन्ते सम्बद्ध्यन्ते येन तदिति ।
तश्चानुमानं द्यवयवं व्यवयवं पञ्चावयवं वा द्विप्रकारं भवतीति २५ दर्शयन्
१ शास्त्रे यदुदाहरणादि तस्मिन् । २ वा। ३ एवं च सति । ४ सामान्यतः खरूपं दृष्टान्तेनोक्तं शेषतस्तत्स्वरूपं तु साध्यव्याप्तमित्यादिना दर्शयति। ५ बसः । '६ जेनस्य । ७ मीसांसकस्य । ८ योगस्य ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org