________________
३७८
१०
इत्याह ।
कुतस्तद् द्वेधेति चेत् ?
तत्र
प्रमेयकमलमार्त्तण्डे
तदनुमानं द्वेधा ॥ ५२ ॥
[ ३. परोक्षपरि०
स्वार्थपरार्थभेदात् ॥ ५३ ॥
स्वार्थमुक्तलक्षणम् ॥ ५४ ॥
स्वार्थमनुमानं साधनात्साध्यविज्ञानमित्युक्तलक्षणम् । किं पुनः परार्थानुमानमित्याह परार्थमित्यादि - परार्थं तु तदर्थपरामर्शिवचनाज्जातम् ॥ ५५ ॥
तस्य स्वार्थानुमानस्यार्थः साध्यसाधने तत्परामैर्शिवचना जातं यत्साध्यविज्ञानं तत्परार्थानुमानम् ।
ननु वचनात्मकं परार्थानुमानं प्रसिद्धम्, तच्चोकप्रकारं साध्यविज्ञानं परार्थानुमानमिति वर्णयता कथं सङ्ग्रहीतमित्याहतद्वचनमपि तद्धेतुत्वात् ॥ ५६ ॥
१५ तद्वचनमपि तदर्थपरामर्शिवचनमपि तद्धेतुत्वात् ज्ञानलक्षणमुख्यानुमानहेतुत्वादुपचारेण परार्थानुमानमुच्यते । उपचारनिमित्तं चास्य प्रतिपादकप्रतिपाद्यापेक्षयानुमान कार्यकारणत्वम् । तत्प्रतिपादकज्ञानलक्षणानुमान (नं) हेतुः कारणं यस्य तद्वचनस्य, तस्य वा प्रतिपाद्यज्ञानलक्षणानुमानस्य हेतुः कारणम्, तेंद्भाव२० स्तद्धेतुत्वम्, तस्मादिति । मुख्यरूपतया तु ज्ञानमेव प्रमाणं परनिरपेक्षतयाऽर्थप्रकाशकत्वादिति प्राक्प्रतिपादितम् ।
Jain Educationa International
यथा चानुमानं द्विप्रकारं तथा हेतुरपि द्विप्रकारो भवतीति दर्शनार्थ स हेतु घेत्याह
स हेतुर्द्वधा उपलब्ध्यनुपलब्धिभेदात् इति ॥५७॥ २५ योऽविनाभावलक्षणलक्षितो हेतुः प्राक्प्रतिपादितः स द्वेधा भवति उपलब्ध्यनुपलब्धिभेदात् ।
तत्रोपलब्धिर्विधिसाधिकैवानुपलब्धिश्च प्रतिषेधसाधिकैवेत्यनयोर्विषयनियममुपलब्धिरित्यादिना विघटयति
;
१. अनेन प्रकारेण । २ तद्द्योत । ३ परार्थानुमानमुच्यते इति सम्बन्धः । ४ हेतोः । ५ अनेन प्रकारेण ।
For Personal and Private Use Only
www.jainelibrary.org