SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ३७६ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तत्परमभिधीयमानं साध्यधर्मिणि साध्य साधने सन्देहयति ॥ ४२॥ कुतोऽन्यथोपनयनिगमने ? ॥ ४३ ॥ परं केवलमभिधीयमानं साध्यसाधने साध्यधर्मिणि सन्देह५यति सन्देहवती करोति । कुतोऽन्यथोपनयनिगमने ? मा भूदृष्टान्तस्यानुमानं प्रत्यङ्गत्वमुपनयनिगमनयोस्तु स्यादित्याशङ्कापनोदार्थमाहन च ते तदङ्गे साध्यधर्मिणि हेतुसाध्ययो. र्वचनादेवाऽसंशयात् ॥ ४४ ॥ १० न च ते तदङ्गे साध्यधर्मिणि हेतुसाध्ययोर्वचनादेव हेतु साध्यप्रतिपत्तौ संशयाभावात् । तथापि दृष्टान्तादेरनुमानावयवत्वे हेतुरूपत्वे वा समर्थनं वा वरं हेतुरूपमनुमानावयवो. वास्तु साध्ये तदुपयोगात्॥४५॥ १५ समर्थनमेव वरं हेतुरूपमनुमानावयवो वास्तु साध्ये तस्योपयोगात् । समर्थनं हि नाम हेतोरसिद्धत्वादिदोषं निराकृत्य खसाध्येनाऽविनाभावसाधनम् । साध्यं प्रति हेतोर्गमकत्वे च तस्यैवोपयोगो नान्यस्येति ।। ननु व्युत्पन्नप्रज्ञानां साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवा२० संशयादर्थप्रतिपत्तदृष्टान्तादिवचनमनर्थकमस्तु। बालानां त्वव्युत्पन्नप्रशानां व्युत्पत्त्यर्थ तन्नानर्थकमित्याहबालव्युत्पत्त्यर्थं तत्रयोपगमे शास्त्र एवासौ ___ न वादेऽनुपयोगात् ॥ ४६॥ बालव्युत्पत्त्यर्थ तन्त्रयोपगमे दृष्टान्तोपनय निगमनत्रयाभ्युप १ यदि सन्देहवती न करोति । २ उपनयनिगमनादेश्च । ३ सपक्षे दृष्टान्ते सत्त्वमुपनयश्च हेतुस्वरूपम् । कुतः ? त्रिरूपो हेतुर्यत इति सौगतः। ४ हेतुलक्षणं कीदृशम् ? दृष्टान्तोपनयनिगमनलक्षणत्रिरूपत्वप्रदर्शनवरूपम् । ५ हेतुरूपोस्तु । कथम् ? हेतोः समर्थनं हेतुरेवेत्यनेन प्रकारेण । ६ विपक्षे साकल्येन बाधकप्रमाणप्रदर्शनं हेतुसमर्थनम् । ७ एतदेव । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy