________________
सू० ३३७-४१] उदाहरणस्य अवयत्वनिरासः
न हि ततू साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव साध्याविना. भावनियमैकलक्षणस्य व्यापारात् । द्वितीयविकल्पोप्यसम्भाव्यःतदविनाभावनिश्चयार्थं वा विपक्षे बाधकादेव
तसिद्धेः ॥ ३९॥ न हि हेतोस्तेन साध्येनाविनाभावस्य निश्चयार्थ वा तदुपादानंद युक्तम् ; विपक्षे बांधकादेव तत्सिद्धेः । न हि सपक्षे सत्त्वमात्राद्धेतोाप्तिः सिद्ध्यति, 'स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवत्' इत्यत्र तदाभासेपि तत्सम्भवात् । ननु साकल्येन साध्य निवृत्तौ साधन निवृत्तरत्रासम्भवात्परत्र गोरेपि तत्पुत्रे तत्पुत्रत्वस्य भावान्न व्याप्तिः, तर्हि साकल्येन साध्यनिवृत्तौ साधननिवृत्तिनिश्चयरूपा-१० द्वाधैकादेव व्याप्तिप्रसिद्धरलं दृष्टान्तकल्पनया। व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिः तत्रापि तद्विप्रतिपत्तावनवस्थानं स्यात्
दृष्टान्तान्तरापेक्षणात् ॥ ४० ॥ किञ्च, वादिप्रतिवादिनोर्यत्र बुद्धिसाम्यं स दृष्टान्तो भवति २५ प्रतिनियतव्यक्तिरूपः, यथाऽग्नौ साध्ये महानसादिः। व्यक्तिरूपं च निदर्शनं कथं तदविनाभावनिश्चयार्थ स्यात् ? प्रतिनियतव्यक्ती तन्निश्चयस्य कर्तुमशक्तेः। अंनियतदेशकालाकाराधारतया सामान्येन तु व्याप्तिः । कथमन्यथान्यत्र साधनं साध्यं साधयेत् ? तत्रापि दृष्टान्तेपि तस्यां व्याप्तौ विप्रतिपत्तौ सत्यां दृष्टान्तान्तरा-२० न्वेषणेऽनवस्थानं स्यात् । नापि व्याप्तिस्मरणार्थं तथाविधहेतुप्रयो
गादेव तत्स्मृतेः ॥४१॥ नापि व्याप्तिस्मरणार्थ दृष्टान्तोपादानं तथाविधस्य प्रतिपन्नाविनाभावस्य हेतोः प्रयोगादेव तत्स्मृतेः । एवं चाप्रयोजनं २५ तदुदाहरणम्।
१ ऊहात् । २ अविनाभावः । ३ ऊहात् । ४ पर्वते। ५ साध्यसाधनयोः । ६ प्रतिनियतव्यक्तौ तन्निश्चयस्य कर्तुमशक्तरित्येतद्भावयति । ७ सामान्येन व्याप्तिन स्याथदि । ८ दृष्टान्तादन्यत्र ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org