________________
३७४
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० रूपत्रयभेदेन वा त्रिधा हेतुमुक्त्वाऽसिद्धत्वादिदोषपरिहारद्धारेण समर्थयमानो न पक्षयति ? अपि तु पक्षं करोत्येव । न चाऽसमर्थितो हेतुः साध्यसियङ्गमतिप्रसङ्गात् । ततः पक्षप्रयोगमनिच्छता हेतुमनुक्त्वैव तत्समर्थनं कर्त्तव्यम् । हेतोरवचने कस्य ५समर्थनमिति चेत् ? पक्षस्याप्यनभिधाने क हेत्वादिः प्रवर्त्तताम् ? गम्यमाने प्रतिज्ञाविषये एवेति चेत्, गम्यमानस्य हेत्वादेरपि समर्थनमस्तु । गम्यमानस्यापि हेत्वादेर्मन्दमतिप्रतिपत्त्यर्थ वचने तदर्थमेव प्रतिज्ञावचनमप्यस्तु विशेषाभावात् । ततः
साध्यप्रतिपत्तिमिच्छता हेतुप्रयोगवत्पक्षप्रयोगोप्यभ्युपगन्तव्यः । १० तद्वयस्यैवानुमानाङ्गत्वात् , इत्याह
एतद्द्यमेवानुमानाङ्गम् , नोदाहरणम् ॥ ३७॥ ननु “पक्षहेतुदृष्टान्तोपनयनिगमनान्यवयवाः" [न्यायसू० श॥३२ (१)] इत्यभिधानाद् दृष्टान्तादेरप्यनुमानाङ्गत्वसम्भवादेतद्वयमेवाङ्गमित्ययुक्तमुक्तम् । प्रतिज्ञा ह्यागमः। हेतुरनुमानम् , १५प्रतिज्ञातार्थस्य तेनानुमीयमानत्वात् । उदाहरणं प्रत्यक्षम् , “वादि
प्रतिवादिनोर्यत्र बुद्धिसाम्यं तदुदाहरणम्" [ ] इति वचनात् । उपनय उपमानम्, दृष्टान्तधर्मिसाध्यधर्मिणोः सादृश्यात्, "प्रसिद्धसाधासाध्यसाधनमुपमानम्" [ न्यायसू० ॥१६] इत्यभिधानात् । सर्वेषामेकविषयत्वप्रदर्शनफलं निगमनमित्या. २० शङ्कयोदाहरणस्य तावत्तदङ्गत्वं निराकुर्वन्नाह-नोदाहरणम् । अनु. मानाङ्गमिति सम्बन्धः।
तद्धि किं साक्षात्साध्यप्रतिपत्त्यर्थमुपादीयते, हेतोः साध्यावि. नाभावनिश्चयार्थ वा, व्याप्तिस्मरणार्थ वा प्रकारान्तरासम्भवात् ?
तत्राद्यविकल्पोऽयुक्तः२५ न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव
व्यापारात् ॥ ३८॥
१ हेत्वाभासस्यापि साध्यसिध्यङ्गताप्रसङ्गात् । २ न केवलं हेतोः। ३ साध्यं च । ४ साध्यसाधनस्यैव परिहारेण दृष्टान्तस्य समर्थनमादिशब्देन ग्राह्यम् । ५ एतत् । ६ करणे युटू । ७ महानसादि । ८ धूमवत्वेन । ९ प्रसिद्धं महानसं तेन साधयं पर्वतस्य धूमवत्वेन । १० धूमवांश्वायम् । ११ धूमवत्त्वशब्दवाच्यत्वं पर्वतस्य साध्य तेस साधनं शानम् । १२ प्रमाणानाम् । ११ अभिस्व । १४ अक्रमपरम्परया सायप्रतिपत्तिः कथमेवंविधादेतोः साध्यसिद्धिरिति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org