________________
सू० ३।३०-३६] प्रतिज्ञाप्रयोगसमर्थनम्
३७३ स्तद्वचनादेव च तत्प्रसिद्धर्व्यर्थः पक्षप्रयोगः' इत्याशय साध्यधर्माधारेत्यादिना प्रतिविधत्तेसाध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि
पक्षस्य वचनम् ॥ ३४॥ साध्यधर्मोऽस्तित्वादिः, तस्याधार आश्रयः यत्रासौ साध्यधर्मो५ वर्त्तते, तत्र सन्देहः-किमसौ साध्यधर्मोऽस्तित्वादिः सर्वशे वर्त्तते सुखादी वेति, तस्यापनोदाय गम्यमानस्यापि पक्षस्य वचनम् ।
साध्यर्मिणि साधनधर्मावबोधनाय
पक्षधर्मोपसंहारवत् ॥ ३५॥ तस्याऽवचनं साध्यसिद्धिप्रतिबन्धकत्वात् , प्रयोजनाभावाद्वा ? १० तत्र प्रथमपक्षोऽयुक्तः, वादिना साध्याविनाभावनियमैकलक्षणेन हेतुना स्वपक्षसिद्धौ साधयितुं प्रस्तुतायां प्रतिज्ञाप्रयोगस्य तत्प्रतिबन्धकत्वाभावात् ततः प्रतिपक्षासिद्धः । द्वितीयपक्षोप्य. युक्तः, तत्प्रयोगे प्रतिपाद्यप्रतिपत्तिविशेषस्य प्रयोजनस्य सद्भावात्, पक्षाऽप्रयोगे तु केषाश्चिन्मन्दमतीनां प्रकृतार्थाप्रतिपत्तेः।१५ ये तु तत्प्रयोगमन्तरेणापि प्रकृतार्थ प्रतिपद्यन्ते तान्प्रति तदप्रयोगोऽभीष्ट एव । “प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः" [ ] इत्यभिधानात् । ततो युक्तो गम्यमानस्याप्यस्य प्रयोगः, कथमन्यथा शास्त्रादावपि प्रतिज्ञाप्रयोगः स्यात् ? न हि शास्त्रे नियंतकथायां प्रतिज्ञा नाभिधीयते-'अग्निरत्र धूमात्, वृक्षोयं शिंशपा-२० त्वात्' इत्याद्यभिधानानां तत्रोपलम्भात् । परानुग्रहप्रवृत्तानां शास्त्रकाराणां प्रतिपाद्यावबोधनाधीनधियां शास्त्रादौ प्रतिज्ञाप्रयोगो युक्तिमानेवोपयोगित्वात्तस्येत्यभिधाने वादेपि सोऽस्तु तत्रापि तेषां तादृशत्वात् । अमुमेवार्थ को वेत्यादिना परोपहसनव्याजेन समर्थयते- २५ को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न
पक्षयति ? ॥ ३६॥ को वा प्रामाणिकः कार्यखभावानुपलम्भमेदेन पक्षधर्मत्वादि१ व्याप्तिप्रदर्शनद्वारेण । २ सुनिश्चिताऽसम्भवद्भाधकप्रमाणश्चायमिति साधनस्य पक्षधर्मत्वेन.प्रदर्शनमुपसंहारस्तद्वत् । ३ अस्ति सर्वश इति । ४ गम्यमानस्य पक्षस्य प्रयोगो न स्याचदि । ५ सुगोठ्याम् । ६ धर्मकीर्त्यादीनाम् । ७ सौगतेन । ८ मिषण।
प्र. क. मा० ३२
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org