________________
३७२
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता ॥३०॥ अग्निमानयं देशः परिणामी शब्द इति यथा ३१
प्रमाणं प्रत्यक्षादिकम् , उभयं प्रमाणविकल्पो, ताभ्यां सिद्धे पुनर्मिणि साध्यधर्मेण विशिष्टता साध्या । यथाग्निमानयं देशः, ५परिणामी शब्द इति । देशो हि धर्मित्वेनोपात्तोऽध्यक्षप्रमाणत एव प्रसिद्धः, शब्दस्तूभाभ्याम् । न खलु देशकालान्तरिते ध्वनौ प्रत्यक्षं प्रवर्तते, श्रूयमाणमात्र एवास्य प्रवृत्तिप्रतीतेः। विकल्पस्य त्वऽनियतविषयतया तत्र प्रवृत्तिरविरुद्धव ।।
ननु चैवं देशस्याप्यग्निमत्त्वे साध्ये कथं प्रत्यक्षसिद्धता? तत्र १० हि दृश्यमानभागस्याग्निमत्त्वसाधने प्रत्यक्षबाधनं साधनवैफल्यं
वा, तत्र साध्योपलब्धेः। अदृश्यमानभागस्य तु तत्साधने कुतस्तप्रत्यक्षतेति ? तदप्यसमीचीनम् ; अवयविद्रव्यापेक्षया पर्वतादेः सांव्यवहारिकप्रत्यक्षप्रसिद्धताभिधानात् । अतिसूक्ष्मेक्षिकापर्यालोचने न किञ्चित्प्रत्यक्षं स्यात् , बहिरन्तर्वाऽस्मदादिप्रत्यक्षस्या१५ शेषविशेषतोऽर्थसाक्षात्करणेऽसमर्थत्वात् , योगिप्रत्यक्षस्यैव तत्र सामर्थ्यात्।
ननु प्रयोगकालवद्व्याप्तिकालेपि तँद्विशिष्टस्य धर्मिण एव साध्यव्यपदेशः कुतो न स्यादित्याशङ्कयाह
व्याप्तौ तु साध्यं धर्म एव ॥ ३२॥ २० न पुनस्तद्वान् ।
. अन्यथा तदघटनात् ॥ ३३ ॥ अनेन हेतोरन्वयासिद्धेः। न खलु यत्र यत्र कृतकत्वादिकं प्रतीयते तत्र तत्रानित्यत्वादिविशिष्टशब्दाद्यन्वयोस्ति ।
'ननु प्रसिद्धोधर्मीत्यादिपक्षलक्षणप्रणयनमयुक्तम् अस्ति सर्वज्ञ २५ इत्याद्यनुमानप्रयोगे पक्षप्रयोगस्यैवासम्भवात् अर्थादापन्नत्वात्तस्य । अर्थादापन्नस्याप्यभिधाने पुनरुक्तत्वप्रसङ्ग:-"अर्थादापन्नस्य वशब्देनाभिधानं पुनरुक्तम्" [ न्यायसू० ५।२।१५] इत्य. भिधानात् । तत्प्रयोगेपि च हेत्वादिवचनमन्तरेण साध्याप्रसिद्धे
'१ प्रसिद्धः । २ शब्दस्य केवलप्रत्यक्षतः सिद्ध्यभावप्रकारेण । ३ स्यात् । ४ नाडवयव( प्रदेश )द्रव्यापेक्षया । ५ असर्वशप्रत्यक्ष । ६ विचार । ७ साध्यधर्म । ८ बौद्धः। ९ अर्थादापन्नस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org