________________
३७१
सू० ३।२५-२९] धर्मिस्वरूपविचारः साध्यं धर्मः कचित्तद्विशिष्टो वा धर्मी ॥ २५॥ क्वचिद्व्याप्तिकाले साध्यं धर्मो नित्यत्वादिस्तेनैव हेतोर्व्याप्तिसम्भवात् । प्रयोगकाले तु तेन साध्यधर्मेण विशिष्टो धर्मी साध्य. मभिधीयते, प्रतिनियतसाध्यधर्मविशेषणविशिष्टतया हि धर्मिणः साधयितुमिष्टत्वात् साध्यव्यपदेशाविरोधः। अस्यैव पर्यायमाह
पक्ष इति यावत् ॥ २६ ॥ ननु च कथं धर्मी पक्षो धर्मधर्मिसमुदायस्य तत्त्वात् ; तन्न; साध्यधर्मविशेषणविशिष्टतया हि धर्मिणः साधयितुमिष्टस्य पैक्षाभिधाने दोषाभावात्। स च पक्षत्वेनाभिप्रेतः
प्रसिद्धो धर्मी ॥ २७ ॥ तत्प्रसिद्धिश्च क्वचिद्विकल्पतः क्वचित्प्रत्यक्षादितः क्वचिच्चोभयत इति प्रदर्शनार्थम्-'प्रत्यक्षसिद्धस्यैव धर्मित्वम्' इत्येकान्तनिरा. करणार्थ च विकल्पसिद्ध इत्याद्याह-
१५ विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये ॥ २८ ॥ अस्ति सर्वज्ञः नास्ति खरविषाणमिति ॥ २९ ॥ विकल्पेन सिद्धे तस्मिन्धर्मिणि सत्तेतरे साध्ये हेतुसामर्थ्यतः। यथा अस्ति सर्वज्ञः सुनिश्चितासम्भवद्वाधकप्रमाणत्वात् , नास्ति खरविषाणं तद्विपर्ययादिति । न खलु सर्वज्ञखरविषाणयोः सद-२० सत्तायां साध्यायां विकल्पादन्यतः सिद्धिरस्ति; तत्रेन्द्रियव्यापाराभावात् ।
ननु चेन्द्रियप्रतिपन्न एवार्थे मनोविकल्पस्य प्रवृत्तिप्रतीतेः कथं तत्रेन्द्रियव्यापाराभावे विकल्पस्यापि प्रवृत्तिः, इत्यप्यपेशलम्; धर्माधर्मादौ तत्प्रवृत्त्यभावानुषंङ्गात् । आगमसामर्थ्यप्रभवत्वेना-२५ स्यात्र प्रवृत्तौ प्रकृतेप्यतस्तत्प्रवृत्तिरस्तु विशेषाभावात् ।
१ शब्दस्य । २ इति। ३ पक्ष इति । ४ अनुमाने । ५ निश्चितसंवादः संवादः ( अनिश्चितसंवादासंवादः) शब्दप्रत्ययो विकल्पस्तेन। ६ असत्ता। ७ इन्द्रियव्यापाराभावात् । ८ शब्दगम्यत्वाविशेषात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org