________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० - साध्यत्वं चास्यासतः करणम्, सतो ज्ञापनं वा? प्रथमपक्षे सामान्यस्यानित्यत्वाऽसर्वगतत्वप्रसङ्गः। द्वितीयपक्षेप्यस्य दृश्यत्वे धर्मिवत्प्रत्यक्षत्वमिति किं केन ज्ञाप्यते ? अन्यथा धूमसामान्यमप्यग्निसामान्येन ज्ञाप्येत । अथ व्यक्तिसहायत्वाद्धमसामान्यमेव प्रत्यक्षं ५नान्यत् ततोऽयमदोषः, न; अस्य सामान्यविचारे सहायापेक्षाप्रतिक्षेपात्।
यच्चोक्तम्-विशेषप्रतिपत्तिस्तु पक्षधर्मतावलादेवेति; तंत्र पक्षधर्मता धूमस्य, तत्सामान्यस्य वा? तत्राद्यः पक्षोऽसङ्गतः; विशेषण
व्याप्तेरप्रतिपत्तितस्तद्गमकत्वायोगात् । १० द्वितीयपक्षेप्यग्निसामान्यस्यैव धूमसामान्यासिद्धिः स्यात् तेनैव
तस्य व्याप्तेः, नाग्निविशेषस्य अनेनाव्याप्तेः । अथ साधनसामान्यात् साध्यसामान्यप्रतिपत्तेरेवेष्टविशेषप्रतिपत्तिः सामान्यस्य विशेषनिष्ठत्वात् । ननु तत्सामान्यमपि विशेषमात्रेण व्याप्त
सत्तदेव गमयेन्नान्यत् । अथ विशिष्टविशेषांधारं लिङ्गसामान्य १५प्रतीयमानं विशिष्टविशेषाधिकरणं साध्यसामान्यं गमयतीत्यु
च्यते; तदप्युक्तिमात्रम्; तथा व्याप्तेरभावात् । अथ विपक्षे सद्भाव बाधकप्रमाणवशात्तत्सिद्धिरिष्यते; तर्हि तावतैव पर्याप्तत्वात् किमन्वयेन परस्य ? । एतेनान्तर्व्याप्तिरपि चिन्तिता । न खलु प्रत्यक्षादितः सापि २० प्रसिद्ध्यति । तन्न पूर्ववच्छेषवदिति सूक्तम् ।
यच्चान्यदुक्तम्-'पूर्ववत्सामान्यतोदृष्टं चेति चशब्दो भिन्नप्र. क्रमः 'सामान्यतः' इत्यस्यानन्तरं द्रष्टव्यः । ततोयमर्थः-पूर्वव. त्पक्षवत्सामान्यतोपि न केवलं विशेषतो दृष्टं विपक्षे। अनेन केव
लव्यतिरेकी हेतुर्दर्शितः-'सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् २५ इत्यादिः, तदप्ययुक्तम् । यतः प्राणादेरन्वयाभावे कुतोऽविनाभावावगतिः ? व्यतिरेकाचेत् ; तथाहि-यस्माद् घटादेः सात्मकत्व.
१ निष्पादनम् । २ हेतुना। ३ साध्यसामान्यस्य । ४ हेतुना । ५ प्रत्यक्षमपि ज्ञाप्यते चेत् । ६ धूमविशेष। ७ अग्निसामान्यम् । ८ साध्यसाधनसामान्यस्य । ९ ग्रन्थे। १. साध्यसाधनयोः। ११ यत्र यत्र पुरो भवति पर्वतस्थधूमस्तत्राग्नि रिति । १२ सिद्धिः। १३ धूमसामान्यस्य । १४ यसः। १५ अग्निविशेष । १६ प्रेष्टविशेषम् । १७ पर्वतस्थधूम। १८ पर्वतस्थाग्नि । १९ बसः । २० यो यः पुरोवत्तिपर्वतस्थधूमः स पुरोवर्तिपर्वतस्थाग्निमानिति । २१ हेतोः । २२ अनुपलम्भ। २३ व्याप्ति । २४ व्याप्तेः । २५ योगस्य । २६ साकल्यव्याप्तिशोधनपरेण ग्रन्थेन । २७ निराकृता । २८ अन्वयदृष्टान्तस्य । २९ कारणात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org