________________
सू० ३।१५] पूर्ववदाद्यनुमानत्रैविध्यनिरासः
३६७
निवृत्तौ प्राणादयो नियमेन निवर्तन्ते तस्मात्सात्मकत्वाभावः प्राणाद्यभावेन व्याप्तो धूमाभावेनेव पावकाभावः । जीवच्छरीरे च प्राणाद्यभावविरुद्धः प्राणादिसद्भावःप्रतीयमानस्तभावं निवतयति । स च निवर्तमानः स्वव्याप्यं सात्मकत्वाभावमादाय निवर्त्तते इति सात्मकत्वसिद्धिस्तत्र; इत्यप्यसारम् । यतोनुमा-५ नान्तरेप्येवमविनाभावप्रसिद्धेः केवलव्यतिरेक्येव सर्वमनुमानं स्यात्, अन्वयमात्रेण तत्सिद्धावतिप्रसङ्गस्योक्तत्वात् ।
किञ्च, साध्यनिवृत्त्या साधननिवृत्तिर्व्यतिरेकः, स च क्वचित् कदाचित्, सर्वत्र सर्वदा वा स्यात् ? न तावदाद्यः पक्षः, तथा व्यतिरेकस्य साधनाभासेपि सम्भवात् । द्वितीयपक्षोप्ययुक्तः,१० साकल्येन व्यतिरेकप्रतिपत्तेः प्रत्यक्षादिप्रमाणतः परेषामन्वयप्रतिपत्तेरिवासम्भवात्।
एतेन पूर्ववच्छेषवत्सामान्यतोदृष्टमन्वयव्यतिरेक्यनुमानं प्रत्याख्यातम् ; पक्षद्वयोपक्षिप्तदोषानुषङ्गात् ।
यञ्च तदुदाहरणम्-विवादापन्नं तनुकरणभुवनादिकं बुद्धिमद्धे १५ तुकं कार्यत्वादिभ्यो घटादिवदित्युक्तम् । तदपीश्वरनिराकरणप्रकरणे विशेषतो दूषितमिति पुनर्न दूष्यते।
अथ "पूर्ववत्-कारणात्कार्यानुमानम् , शेषवत्-कार्यात्कारणानुमानम् , सामान्यतो दृष्टम्-अकार्यकारणादकार्यकारणानुमानम् सामान्यतोऽविनाभावमात्रात्" [ न्यायभा०, वार्त्ति० ११११५] इति २० व्याख्यायते; तदप्यविनाभावनियमनिश्चायकप्रमाणाभावादेवायुक्तं परेषाम् । स्याद्वादिनां तु तद्युक्तं तत्सद्भावात् इत्याचार्यः खयमेव कार्यकारणेत्यादिना हेतुप्रपञ्चे प्रपञ्चयिष्यति ।
१ कारणात् । २ व्यापकेन। ३ धूमाभावः पावकाभावे सत्यसति च भवति धूमाभावस्य व्यापकत्वेन तदतनिष्ठत्वात्। ४ देशे। ५ स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यादौ। ६ केवलान्वयिकेवलव्यतिरेकिलक्षणपक्षद्वयनिराकरणपरेण ग्रन्थेन । ७ पूर्व कारणं तल्लिङ्गमस्यानुमानस्यास्तीति पूर्ववत् । कारणलिङ्गजनितमनुमानमित्यर्थः । ८ असौ पुमान् रूपादिज्ञानवान् चक्षुरादिमत्वान्मद्वदित्युदाहरणम् । शेषवदिति शेषः कार्य तल्लिङ्गमस्यानुमानस्यास्तीति शेषवत् । कार्यलिङ्गजनितमनुमानमित्यर्थः । सात्मक जीवच्छरीरं प्राणादिमत्त्वादित्युदाहरणम् । ९ दृष्टान्ते । १० कार्य यो हेतुर्न भवति कारणं वा यो हेतुर्न भवति तस्माद्धेतोः कार्य यन्न भवति साध्यं कारणं वा यन्न भवति साध्यं तस्यानुमानम् । मातुलिङ्गं रूपवद्रसवत्त्वात्सम्प्रतिपन्नमातुलिङ्गवदित्युदाहरणम् । ११ सूत्रम् । १२ व्याख्यानम् । १३ ऊह । १४ जटाधराणाम् । १५ अनुमानत्रितयम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org