________________
सू० ३।१५] पूर्ववदाद्यनुमानत्रैविध्यनिरासः
निरालम्बनाः प्रत्ययत्वात्स्वप्नप्रत्ययवत्, ईश्वरः किञ्चिज्ज्ञो रागादिमानवा वक्तृत्वादिभ्यो रथ्यापुरुषवत्' इत्यादेर्गमकत्वं स्यात् केवलान्वयस्यात्र सुलभत्वात् । ननु सर्वे न सत्त्वादिकं क्षणिकत्वादिना व्याप्तम् आत्मादौ क्षणिकत्त्वाद्यसत्त्वात्। तन्न; तदसत्त्वे तत्रार्थक्रियाऽसत्त्वात् सत्त्वं न स्यात् ।
किञ्च, घटादिदृष्टान्ते सत्त्वादिकं क्षणक्षयादौ सति दृष्टमपि यदि क्वचित्तदभावेपि स्यान्न तर्हि बहियाप्तिरन्वयः, लक्षणयुक्त वाधासम्भवे तल्लक्षणमेव दूषितं स्यात् ।
अथ सकलव्याप्तिरन्वयः; ननु केयं सकलव्याप्तिः ? 'दृष्टान्तधर्मिणीव साध्यधर्मिण्यन्यत्र च साध्येन साधनस्य व्याप्तिः सा'१० इति चेत्, सा कुतः प्रतीयताम् ? प्रत्यक्षतः, अनुमानाद्वा? प्रत्यक्षतश्चेत् ; किमिन्द्रियात् , मानसाद्वा? न तावदिन्द्रियात्; चक्षु. रादेरिन्द्रियस्य सकलसाध्यसाधनार्थसन्निकर्षवैधुर्य तदनुपपत्तेः । न हि तद्वैधुर्ये तद्युक्तम् “इन्द्रियार्थसन्निकर्षोत्पन्नमव्यपदेश्यमsव्यभिचारि व्यवसायात्मकं ज्ञानं प्रत्यक्षम्" [ न्यायसू० ॥११४ ] १५ इत्यभिधानात् । तस्य तत्सन्निकर्षे वा प्राणिमात्रस्याशेषज्ञत्वप्रसङ्गान कश्चिदीश्वराद्विशेष्येत ।
ननु साध्यसाधनयोः साकल्येन ग्रहणं सकलव्याप्तिग्रहणम् । साध्यं चाग्निसामान्यं साधनं च धूमसामान्यम् , तयोश्चानंवयव. योरेकंत्रापि साकल्येन ग्रहणमस्ति, विशेषप्रतिपत्तिस्तु सर्वत्र २० पक्षधर्मताबलादेवेति चेत् । तर्हि क्षणिकत्वादि साध्यम् , सत्त्वादि : साधनम् , तयोश्चानवयवयोः प्रदीपादौ संहदर्शनादेव सकलव्याप्तिग्रहः किन्न स्यात् ? मानसप्रत्यक्षादपि व्याप्तिप्रतिपत्तावयमेव दोषः। तन्न प्रत्यक्षतः सकलव्याप्तिग्रहः। नाप्यनुमानतोऽनवस्थाप्रसङ्गात् ।
सामान्यस्य च साध्यत्वे साधनवैफल्यम् तत्राविवादात्, व्याप्ति- : ग्रहणकाल स्वास्य प्रसिद्धः । कथमन्यथा सामान्यधर्मयोः साकल्येन व्याप्तिनिर्णीता स्यात् ?
१ यौगं प्रति । २ लक्षणम् । ३ लक्ष्यम् । ४ सत्वादिलक्षणे हेतौ। ५ बहिाप्तिरूपस्यान्वयस्य कथं बाधासम्भवः ? आत्मादौ क्षणिकत्वाभावेपि सत्त्वमस्ति यतः। ६ सकलेषु साध्यसाधनेषु । ७ व्यत्यन्तरेषु । ८ अशब्दजम् । ९ सकलयोः। १० अनुमाने। ११ अनुमाने । १२ हेतोः। १३ निरंशयोः। १४ युगपत् । १५ पर्वतोमिमान्धूमवत्त्वादिति सत्यानुमाने धूमोग्निकार्य तदन्वयव्यतिरेकानुविधायित्वादित्यनेनानुमानेन व्याप्तिः प्रतीयते इत्यादिप्रकारेण । १६ साध्यसामान्यस्य । १७ व्याप्तिग्रहणकाले साध्यसामान्यस्य सिद्धिर्नास्ति चेत् । १८ साध्यसाधनयोः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org