________________
सू० ३।१५] हेतोः पाञ्चरूप्यखण्डनम् ३५९ वादिनामबाधितविषयत्वाऽनिश्चये अविनाभावनिश्चयस्यैवासम्भवात् । तन्नैकशाखाप्रभवत्वादेर्वाधितविषयत्वाद्धेत्वाभासत्वम् ।
नापि तत्पुत्रत्वादेः सत्प्रतिपक्षत्वात् । यतः प्रतिपक्षस्तुल्य. बलः, अतुल्यवलो वा सन् स्यात् ? न तावदाद्यः पक्षः; द्वयोस्तुल्यबलत्वे 'एकस्य बाधकत्वमपरस्य च बाध्यत्वम्' इति ५ विशेषानुपपत्तेः। न च पक्षधर्मत्वाद्यभाव एकस्य विशेषः; तस्यानभ्युपगमात् । अभ्युपगमे वा अत एवैकस्य॑ दुष्टत्वसिद्धेर्न किञ्चिदनुमानबाधया? द्वितीयपक्षेप्यतुल्यबलत्वं तयोः पक्षधर्मत्वादिभावाभावकृतम् , अनुमानबाधाजनितं वा स्यात् ? प्रथमपक्षोनभ्युपगमादेवायुक्तः, पक्षधर्मत्वादेरुभयोरप्यभ्युपगमात् ।१० द्वितीयोप्यसम्भाव्यः; तस्याद्यापि विवादपदापन्नत्वात् । न खलु द्वयोस्त्रैरूप्याविशेषतस्तुल्यत्वे सति 'एकस्य वाध्यत्वमपरस्य च बाधकत्वम्' इति व्यवस्थापयितुं शक्यमविशेषेणैव तत्प्रसङ्गात् । इतरेतराश्रयश्च-अतुल्यवलत्वे सत्यनुमानबाधा, तस्यां चातुल्यबलत्वमिति।
यच्च प्रकरणसमस्यानित्यः शब्दोनुपलभ्यमाननित्यधर्मकत्वादित्युदाहरणम् । तत्रानुपलभ्यमान नित्यधर्मकत्वं शब्दे तत्त्वतोऽ. प्रसिद्धम् , न वा? प्रथमपक्षे पक्षवृत्तितयाऽस्याऽसिद्धरसिद्धत्वम् । द्वितीयपक्षे तु साध्यधर्मान्विते धार्मेणि तत्प्रसिद्धम् , तद्रहिते वा? आद्यविकल्पे साध्यवत्येव धर्मिण्यस्य सद्भावसिद्धिः, कथमगम-२० कत्वम् ? न हि साध्यधर्ममन्तरेण धर्मिण्यऽभवनं विहायापरं हेतोरविनाभावित्वम् । तच्चेत्समस्ति, कथं न गमकत्वम् अविनाभाव निबन्धनत्वात्तस्य ? द्वितीयपक्षे तु विरुद्धत्वम् ; साध्यधर्मरहिते धर्मिणि प्रवर्त्तमानस्य विपक्षवृत्तितया विरुद्धत्वोपपत्तेः। अथ सन्दिग्धसाध्यधर्मवति तत्तत्र प्रवर्तते; तर्हि सन्दिग्ध-२५ विपक्षव्यावृत्तिकत्वादस्याऽनैकान्तिकत्त्वम् ।
नन्वेवं सर्वो हेतुरनैकान्तिकः स्यात् , साध्यसिद्धेः प्राक्साध्यधर्मिणःसाध्यधर्मसदसत्त्वाश्रयत्वेन सन्दिग्धत्वात् , ततोऽनुमेयव्यतिरिक्ते साध्यधर्मवति धर्म्यन्तरे साध्याभावे च प्रवर्त्तमानो
१ यौगादीनाम् । २ उक्तन्यायेन । ३ तत्पुत्रत्वव्याख्यानवत्त्वहेत्वोः । ४ तत्पुत्रस्वादित्येतस्य । ५ योगेन । ६ तत्पुत्रत्वादित्येतस्य । ७ तत्पुत्रत्वव्याख्यानवत्त्वहेत्वोः । ८ तत्पुत्रत्वस्य पक्षधर्माद्यभावः व्याख्यानवत्त्वस्य च पक्षधर्मादिसद्भावः । ९ तत्पुत्रख्वव्याख्यानवत्वहेत्वोः। १० सन्दिग्धसाध्यधर्मवति प्रवर्तमानस्यानैकान्तिकत्वप्रकारेण । ११ पर्वतस्य शब्दस्य वा। १२ अनित्यतयाऽनुमेयाच्छब्दात् । १३ घटे । १४ आकाशादौ। १५ सपक्षविपक्षयोरिति यावत् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org