________________
३५८
प्रमेयकमलमार्तण्डे [३. परोक्षपरिक धर्मिणि सद्भावस्त्रैरुप्यम् , तदभावे एव च तत्र तत्सम्भवो बाधा, भावाभावयोश्चैकत्रैकस्य विरोधः।
किञ्च, आध्यक्षागमयोः कुतो हेतुविषयवाधकत्वम् ? स्वार्थ(C)व्यभिचारित्वाञ्चेत् ; हेतावपि सति त्रैरूप्ये तत्समानमित्यसा. ५वप्यनयोर्विषये बाधकः स्यात् । दृश्यते हि चन्द्रार्कादिस्थैर्यग्राह्यऽ. ध्यक्षं देशान्तरप्राप्तिलिङ्गप्रभवानुमानेन बाध्यमानम् । अथैकशाखाप्रभवत्वाद्यनुमानस्य भ्रान्तत्वाद्वाध्यत्वम् । कुतस्तद्धान्त. त्वम्-अध्यक्षबाध्यत्वात् , त्रैरूप्यवैकल्याद्वा ? प्रथमपक्षेऽन्योन्या
श्रयः-भ्रान्तत्वेऽध्यक्षबाध्यत्वम् , ततश्च भ्रान्तत्वमिति । द्वितीय१० पक्षस्त्वयुक्तः त्रैरूप्यसद्भावस्यात्र परेणाभ्युपगमात् । अनभ्युपगमे वाऽत एवास्याऽगमकत्वोपपत्तेः किमध्यक्षबाधासाध्यम् ?
किञ्च, अबाधितविषयत्वं निश्चितम् , अनिश्चितं वा हेतोर्लक्षणं स्यात् ? न तावदनिश्चितम् ; अतिप्रसङ्गात् । नापि निश्चितम् ।
तन्निश्चयासम्भवात् । स हि स्वसम्बन्धी, सर्वसम्बन्धी वा? १५ स्वसम्बन्धी चेत्; तत्कालीनः, सर्वकालीनो वा ? न तावत्तत्का
लीनः; तस्यासम्यगनुमानेपि सम्भवात् । नापि सर्वकालीन: तस्यासिद्धत्वात् , 'कालान्तरेप्यत्रं बाधकं न भविष्यति' इत्यसर्वविदा निश्चेतुमशक्यत्वात् ।
सर्वसम्बन्धिनोपि तत्कालस्योत्तरकालस्य वा तनिश्चयस्या२० सिद्धत्वम् ; अर्वागदृशा 'सर्वत्र सर्वदा सर्वेषाम बाधकस्याभावः'
इति निश्चेतुमशक्तेस्तनिश्चयनिवन्धनस्याभावात् । तन्निबन्धनं होनुपलम्भः, संवादो वा स्यात् ? न तावदनुपलम्भः; सर्वात्मसम्बन्धिनोऽस्याऽसिद्धानकान्तिकत्वात् । नापि संवादः; प्रागनुमानप्रवृत्तेस्तस्यासिद्धेः । अनुमानोत्तरकालं तत्सिद्ध्यभ्युपगमे पर२५ स्पराश्रयः-अनुमानात्प्रवृत्तौ संवादनिश्चयः, ततश्चाबाधितविषय
त्वावगमेऽनुमानप्रवृत्तिरिति । न चाविनाभावनिश्चयादेवाबाधितविषयत्वनिश्चयः; हेतौ पञ्चरूपयोगिन्यऽविनाभावपरिसमाप्ति
१ पर्वते । २ यदा हेतोधर्मिणि सद्भावस्तदा पक्षधर्मत्वम् । यदा च साध्यसद्भावे हेतोधर्मिणि सद्भावस्तदान्वयः । यदा च साध्यसद्भावे एव हेतोधर्मिणि सद्भावस्तदा विपक्षेऽसत्त्वम् । कथं साध्यसद्भाव एव इत्येवकारेण विपक्षेऽसत्वं गम्यम् । ३ साध्यस्य । ४ साध्य । ५ एकशाखाप्रभवत्वलक्षणे। ६ योगेन । ७ पक्षधर्मत्वादेरप्यनिश्चितस्य हेत्वङ्गत्वप्रसङ्गात् । ८ अनुमानकालीनः । ९ एकशाखाप्रभवत्वलक्षणे। १० सम्यगनुमाने। ११ अनुमान । १२ नृणाम् । १३ अनुमान विषये। १४ भावुकस्य । १५ आत्मनः स्वस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org