________________
३६०
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० हेतुरनैकान्तिकः, साध्याभाववत्येव तु पक्षधर्मत्वे सति विरुद्धः, यस्तु विपक्षाव्यावृत्तः सपक्षे चानुगतः पक्षधर्मो निश्चितः स्वसाध्यं गमयत्येवेत्यभ्युपगन्तव्यम् ; इत्यप्यसुन्दरम् । यतो यदि साध्यधर्मिव्यतिरिक्ते धर्म्यन्तरे हेतोः स्वसाध्येन प्रतिबन्धोऽ. ५भ्युपगम्यते; तर्हि साध्यधर्मिण्युपादीयमानो हेतुः कथं साध्य साधयेत् , तत्र साध्यमन्तरेणाप्यस्य सद्भावाभ्युपगमात् ? तद्यतिरिक्ते एव धर्म्यन्तरे साध्येनास्य प्रतिबन्धग्रहणात् । न चान्यत्र साध्याविनाभावित्वेन निश्चितो हेतुरन्यत्र साध्यं गमयत्यतिप्रसङ्गात् । ततः साध्यधर्मिण्येव हेतोर्व्याप्तिः प्रतिपत्तव्या। १० ननु यदि साध्यधर्मान्वितत्वेन साध्यधर्मिण्यसौ पूर्वमेव प्रति. पन्नः, तर्हि साध्यधर्मस्यापि पूर्वमेव प्रतिपन्नत्वाद्धेतोः पक्षधर्मता. ग्रहणस्य वैयर्थ्यम् ; तदप्यसङ्गतम् ; यतः प्रतिबन्धसाधकप्रमाणेन सर्वोपसंहारेण 'साधनधर्मः साध्यधर्माभावे क्वचिदपि न भवति'
इति सामान्येन प्रतिवन्धः प्रतिपन्नः । पक्षधर्मताग्रहणकाले १५तु 'यत्रैव धर्मिण्युपलभ्यते हेतुस्तत्रैव साध्यं साधयति' इति पक्षधर्मताग्रहणस्य विशेषविषयप्रतिपत्तिनिबन्धनत्वान्नानुमानस्य वैयर्थ्यम् । न खलु विशिष्टधर्मिण्युपलभ्यमानो हेतुस्तद्गतसाध्यमन्तरेणोपपतिमान, तस्य तेन व्याप्तत्वाभावप्रसङ्गात् । अत एव प्रतिपन्नप्रतिवन्धैकहेतुसद्भावे धर्मिणि न विपरीतसाध्योप२० स्थापकहेत्वन्तरस्य सद्भावः, अन्यथा द्वयोरप्यनयोः स्वसाध्याविनामावित्वात्, नित्यत्वानित्यत्वयोश्चैकैकदैकान्तवादिमते विरोधतोऽसम्भवात् , तयवस्थापकहेत्वोरप्यसम्भवः । सम्भवे वा तयोः स्वसाध्याविनाभूतत्वान्नित्यत्वानित्यत्वधर्मसिद्धिर्धर्मिणः स्यादिति कुतः प्रकरणसमस्यागमकता एकोन्तत्वसिद्धिर्वा ?
१ शब्दो नित्यः कृतकत्वाद्धटवत् । साध्याभाववत्येव घटे कृतकत्वस्य शब्दलक्षणपक्षधर्मत्वे सति प्रवर्त्तमानस्य विरुद्धत्वम् । २ शब्दात् पर्वतात् वा। ३ घटे महानसादौ बा । ४ शब्दे पर्वते वा। ५ घटे महानसे वा। ६ घटे महानसे वा। ७ शब्दे पर्वते वा । ८ काष्ठे लोहलेख्यत्वोपलम्भाद्वजेपि तथाप्रसङ्गात् । ९ शब्दे । १० पक्षधर्मताग्रह्णात्। ११ ऊहेन । १२ हेतुः। १३ ननु यथास्माकं साध्यधर्मव्यतिरिक्त एवं धर्म्यन्तरे स्वसाध्येन हेतो: प्रतिबन्धग्रहणाभ्युपगमे साध्यधर्मिणि साध्यधर्ममन्तरेणाप्यस्य सद्भावादगमकत्वम् । तथा भवतामपि प्रतिबन्धप्रसाधकप्रमाणेन सामान्येनैवाविनाभाव. प्रतिपत्तेविशिष्टधर्मिणि उपलभ्यमानस्य हेतोस्तद्गतसाध्यमन्तरेणाप्युपपत्तिसम्भवादित्युक्ते वक्ति न खल्विति । १४ अन्यथा । १५ सर्वत्र। १६ अनुपलभ्यमाननित्यधर्मत्वलक्षणस्य । १७ शब्दे । १८ नित्यत्व लक्षण । १९ अनुपलभ्यमानानित्यधर्मकरवलक्षणस्य । २० हेत्वोः । २१ शब्दे धामणि। २२ अनित्यत्वमेव शब्दस्येति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org