________________
सू० ३।१५] हेतोस्रूप्यनिरासः प्यति शकटं कृत्तिकोदयात्' इत्यादेर्गमकत्वेन वक्ष्यमाणत्वात् , सपक्षे सत्त्वरहितस्य च श्रावणत्वादेः शब्दानित्यत्वे साध्ये गमकत्वप्रतीतेः।
ननु नित्यादाकाशादेर्विपक्षादिव सपक्षादप्यनित्याद् घटादेः सतो व्यावृत्तत्वेन श्रावणत्वादेरसाधारणत्वादनैकान्तिकता; तद-५ सत्यम् ; असाधारणत्वस्यानकान्तिकत्वेन व्याप्त्यऽसिद्धेः । सपक्षविपक्षयोहि हेतुरसत्त्वेन निश्चितोऽसाधारणः, संशयितो वा? निश्चितश्चेत् ; कथमनैकान्तिकः ? पंक्षे साध्याभावेनुपपद्यमानतया निश्चितत्वेन संशयहेतुत्वाभावात् ।
श्रावणत्वं हि श्रवणज्ञानग्राह्यत्वम् , तज्ज्ञानं च शब्दादात्मानं १० लभमानं तस्य ग्राहकम् नान्यथा, "नाकारणं विषयः” [ ] इत्यभ्युपगमात् । शब्दश्च नित्यस्तजननकस्वभावो यदिः तर्हि श्रवणप्रणिधानात्पूर्व पश्चाच्च तज्ज्ञानोत्पत्तिप्रसङ्गः । न ह्यविकले कारणे कार्यस्यानुत्पत्तिर्युक्ता अतत्कार्यत्वप्रसङ्गात् । प्रयोगःयस्मिन्नविकले सत्यपि यन्न भवति न तत्तत्कार्यम् यथा सत्यप्य-१५ विकले कुलाले अभवन्पटो न तत्कार्यः, सत्यपि शब्दे पूर्व पश्चाच्चाविकले न भवति च तज्ज्ञानमिति । ननु च श्रोत्रप्रणिधानात्पूर्व पश्चाच्च तज्ज्ञानजननैकस्वभावोपि शब्दस्तन्न जनयत्या. वृतत्वात्। तदप्यसङ्गतम्, आवरणं हि द्रष्टदृश्ययोरेन्तराले वर्तमानं वस्तु लोके प्रसिद्धम् , यथा काण्डपटादिकम् । श्रोत्र.२० शब्दयोश्च व्यापकत्वे सर्वत्र सर्वदा तत्करणैकस्वभावयोरत्यन्तसंश्लिष्टयोः किं नामान्तराले वत्तत ? वृत्तौ वा तयोर्व्यापकत्वव्याघातः, तवष्टब्धदेशपरिहारेणानयोर्वर्तनादिति 'आप्तवचनादिनिबन्धनमर्थज्ञानमागमः' (परीक्षामु० ३११००) इत्यत्र विस्तरेण विचारयिष्यामः । तन्नास्याऽऽवृतत्वात्तज्ज्ञानाजनकत्वं २५ किन्त्वसत्त्वादेव, इति श्रावणत्वादेः सपक्षविपक्षाभ्यां व्यावृत्तत्वेपि पक्षे साध्याविनाभावित्वेन निश्चितत्वाद्गमकत्वमेव । न च सपक्षविपक्षयोरसत्त्वेन निश्चितः पक्षे साध्याविनाभावित्वेन निश्चेतुमशक्यः; सर्वानित्यत्वे साध्ये सत्त्वादेरहेतुत्वप्रसङ्गात् ।
१ शब्दत्वादेश्च । २ विद्यमानात् । ३ यद्यदसाधारणं तत्तदनैकान्तिकमिति । ४ शब्दे। ५ अनित्यत्वस्य । ६ श्रावणत्वहेतोः। ७ साध्याभावे अनुपपद्यमानतया निश्चितत्वं हेतोः कथमित्युक्ते आह । ८ एकाग्रतायाः। ९ शब्दक्षणे। १० श्रवण. शानस्य । ११ श्रवणशानं शब्दकार्य न भवति शब्देऽविकले सति पूर्व पश्चाच्चानुत्पद्यमानत्वात् । १२ आवारकवायुभिः । १३ द्रष्ट्रर्थयोः । १४ मध्ये । १५ वस्त्रविशेषः । १६ वरणाभावं । १७ शब्दस्य । १८ हेतुः। १९ सर्वमनित्यं सत्वादिति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org