________________
प्रमेयकमलमार्तण्डे
[३. परोक्षपरिक
- साधनात्साध्यविज्ञानमनुमानम् ॥१४॥
साध्याऽभावाऽसम्भवनियमनिश्चयलक्षणात् साधनादेव हि शंक्याऽभिप्रेताप्रसिद्धत्वलक्षणस्य साध्यस्यैव यद्विज्ञानं तदनुमानम् । प्रोक्तविशेषणेयोरन्यतरस्याप्यपाये ज्ञानस्यानुमानत्वा५सम्भवात्।
ननु चास्तु साधनात्साध्यविज्ञानमनुमानम् । तत्तु साधनं निश्चितपक्षधर्मत्वादिरूपत्रययुक्तम् । पक्षधर्मत्वं हि तस्यासिद्ध. त्वव्यवच्छेदार्थ लक्षणं निश्चीयते । सपक्ष एव सत्त्वं तु विरुद्धत्वव्यवच्छेदार्थम् । विपक्षे चासत्त्वमेव अनैकान्तिकत्वव्यवच्छि१०त्तये । तदनिश्चये साधनस्यासिद्धत्वादिदोषत्रयपरिहारासम्भवात् । उक्तञ्च
"हेतोस्त्रिष्वपि रूपेषु निर्णयस्तेनं वर्णितः।
असिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥" [प्रमाणवा० श१६] इत्याशङ्ख्याह१५ साध्याविनाभावित्वेने निश्चितो हेतुः ॥ १५ ॥
असाधारणो हि स्वभावो भावस्य लक्षणमव्यभिचारादग्नेरौएण्यवत् । न च त्रैरूप्यस्यासाधारणता; हेतौ तदाभासे च तत्सम्भवात्पश्चरूपत्वादिवत् । असिद्धत्वादिदोषपरिहारश्चास्य
अन्यथानुपपत्तिनियमनिश्चयलक्षणत्वादेव प्रसिद्धः, स्वयमसिद्ध२० स्यान्यथानुपपत्तिनियमनिश्चयासम्भवाद् विरुद्धानकान्तिकवेत्।
किञ्च, त्रैरूप्यमानं हेतोर्लक्षणम् , विशिष्टं वा त्रैरूप्यम् ? तत्राद्यविकल्पे धूमवत्त्वादिवद्वक्तृत्वादावप्यस्य सम्भवात्कथं तल्लक्षणत्वम् ? न खलु बुद्धोऽसर्वज्ञो वक्तृत्वादे रथ्यापुरुषवत्' इत्यत्र हेतोः पक्षधर्मत्वादिरूपत्रयसद्भावे परैर्गमकत्वमिष्यतेऽन्यथानुप२५ पन्नत्वविरहात् । द्वितीयविकल्पे तु कुतो वैशिष्ट्यं त्रैरूप्यस्यान्यत्रान्यथानुपपन्नत्वनियमनिश्चयात्, इति स एवास्य लक्षणमखूणं परीक्षादरुपलक्ष्यते । तद्भावे पक्षधर्मत्वाद्यभावेपि 'उदे.
१ शक्यं प्रत्यक्षाघबाधितम् । २ अभिप्रेतम् इष्टम् । ३ अप्रसिद्धत्वम् असिद्धम् । ४ बसः । ५ साध्यसाधनयोः। ६ साध्यस्य साधनस्य वा। ७ सपक्षे एव सत्त्व. मित्युच्यमाने विपक्षे एकदेशेन सत्त्वनिवृत्तिः स्यात् । तद्व्यवच्छेदार्थ साध्येन विपक्षे हेतोरसत्त्वं यथा स्यादिति विपक्षे चासत्त्वं चेत्युक्तम् । ८ दिनागेन। ९ एते एव विपक्षास्तेभ्यस्ततः । १० स्वरूपेण। ११ यसः। १२ तादिः । १३ अनुमाने । १४ बौद्धैः। १५ वर्जने। १६ परिपूर्णम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org