________________
सू० ३।१३]
तर्कस्वरूप विचारः
यथा मिथ्याज्ञानं प्रमेयो वार्थः प्रमाणविषयपरिशोधकश्चायम्, तस्मात्प्रमाणम् ।
तथा, प्रमाणं तर्कः प्रमाणानामनुग्राहकत्वात्, यत्प्रमाणानामनुग्राहकं तत्प्रमाणम् यथा प्रवचनानुग्राहकं प्रत्यक्षमनुमानं वा प्रमाणानामनुग्राहकश्चायमिति । न चायमसिद्धो हेतुः; ५ प्रमाणानुग्रहो हि प्रथमप्रमाणप्रतिपन्नार्थस्य प्रमाणान्तरेणं तथैवावसायः, प्रतिपत्तिदाविधानात् । स चात्रास्ति प्रत्यक्षादिप्रमाणेनावगतस्य देशतः साध्यसाधनसम्बन्धस्य दृढतरमनेनावगेमात् । ततः साध्यसाधनयोरविनाभावावबोधनिबन्धनमूहज्ञानं परीक्षादक्षैः प्रमाणमभ्युपगन्तव्यम् ।
३५३
नँ चोहः सम्बन्धज्ञानजन्मा यतोऽपरापरोहानुसरणादनवस्था स्यात्; प्रत्यक्षानुपलम्भजन्मत्वात्तस्य । स्वयोग्यताविशेषवशाच्च प्रतिनियतार्थ व्यवस्थापकत्वं प्रत्यक्षवत् । प्रत्यक्षे हि प्रतिनियतार्थ - परिच्छेदो योग्यतात एव न पुनस्तदुत्पत्यादेः, ततस्तत्परिच्छेदकत्वस्य प्राक्प्रतिषिद्धत्वात् । योग्यताविशेषः पुनः प्रत्यक्षस्येवास्य १५ स्वविषयज्ञानावरणवीर्यान्तरायक्षयोपशम विशेषः प्रतिपत्तव्यः ।
"
ननु यथा तर्कस्य स्वविषये सम्बन्धग्रहणनिरपेक्षा प्रवृत्तिस्तथानुमानस्याप्यस्तु सर्वत्र ज्ञाने वावरणक्षयोपशमस्य स्वार्थप्रकाशनहेतोरविशेषात् तथा चानर्थकं सम्बन्धग्रहणार्थं तर्कपरिकल्पनम् ; तदप्यसमीचीनम् ; यतोऽनुमानस्याभ्युपगम्यत एव २० स्वयोग्यता ग्रहणनिरपेक्षमनुमेयार्थ प्रकाशनम्, उत्पत्तिस्तु लिङ्गलिङ्गिसम्बन्धग्रहणनिरपेक्षा नास्ति, अगृहीततत्सम्बन्धस्य प्रतिपत्तुः क्वचित्कदाचित्तदुत्पत्यप्रतीतेः । न च प्रत्यक्षस्याप्युत्पत्तिः करणार्थ सम्बन्धग्रहणापेक्षा प्रतिपन्ना; स्वयमगृहीततत्सम्बन्धस्यापि प्रतिपत्तुस्तदुत्पत्तिप्रतीतेः । तद्वदृहस्यापि स्वार्थ सम्बन्ध - २५ ग्रहणानपेक्षस्योत्पत्तिप्रतिपत्तेर्नोत्पत्तौ सम्बन्धग्रहणापेक्षा युक्तिमतीत्यनर्वेद्यम् ।
अथेदानीमनुमानलक्षणं व्याख्यातुकामः साधनादित्याद्याह
१०
१ प्रत्यक्ष । २ दूरस्थ जललक्षणस्य । ३ द्वितीयप्रत्यक्षेण । ४ एकदेशतः । ५ निश्चयात् । ६ यथानुमानं साध्यसाधनसम्बन्धग्राहितर्कपूर्वकमूहोपि तथा स्यात्, तथा चानवस्था इत्युक्ते आह । ७ धूमधूमध्वजविषय एक एवोदः सकलानुमानव्यवस्थापकः कुतो न स्यादित्युक्ते आह । ८ तस्य अर्थस्य । ९ स्वस्यानुमानस्य कारणभूता योग्यता । १० अपिशब्देनानुमानस्य सङ्ग्रहः । ११ इन्द्रिय । १२ घटादि । १३ स्वमात्मीयं तत्किमुपलम्भानुपलम्भौ अर्थ इति सम्बन्धः, अथवा उपलम्भानुपलम्भयोश्च सम्बन्धः । १४ व्याप्तिज्ञानस्य कारणस्वरूपनिरूपणम् । १५ स्वरूपम् ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org