________________
३५२
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० अग्निसामान्यविशेषस्य साध्यत्वे तेन धूमस्य सम्बन्धः कथं सकलदेशकालव्यात्याध्यक्षतः सिद्ध्येत् ? तथा तत्सम्बन्धासिद्धौ च यत्र यत्र यदा यदा धूमोपलम्भस्तत्र तत्र तदा तदाग्निसामान्य. विशेषविषयमनुमानं नोदयमासादयेत् । न ह्यन्यथा सम्बन्ध ५ग्रहणमन्यथानुमानोत्थानं नाम, अतिप्रेसङ्गात् । ततः सर्वाक्षेपेणं
व्याप्तिग्राही तर्कः प्रमाणयितव्यः। __ ननु 'यावान्कश्चिद्भूमः स सर्वोप्यग्निजन्माऽनग्निजन्मा वा न भवति' इत्यूहापोहविकल्पज्ञानस्य सम्बन्धग्राहिप्रत्यक्षफलत्वान्न
प्रामाण्यम् ; इत्यप्यसमीचीनम्। प्रत्यक्षस्य सँम्बन्धग्राहित्वप्रतिषे. १०धात् । तत्फलत्वेन चास्याऽप्रामाण्ये विशेषणशानफलत्वाद्विशेष्यज्ञानस्याप्यप्रामाण्यानुषङ्गः । हानोपादानोपेक्षाबुद्धिफलत्वात्तस्य प्रामाण्ये च ऊहापोहज्ञानस्यापि प्रमाणत्वमस्तु सर्वथा विशेषाभावात् । तन्नास्यं गृहीतग्राहित्वादप्रामाण्यम्।
नापि विसंवादित्वात्; स्वविषयेस्य संवादप्रसिद्धः । सोध्य१५साधनयोरविनाभावो हि तर्कस्य विषयः, तत्र चाविसंवादकत्वं
सुप्रसिद्धमेव । कथमन्यथानुमानस्याविसंवादकत्वम् ? न खलु तर्कस्यानुमाननिबन्धनसम्बन्धे संवादाभावेऽनुमानस्यासौ घटते।
ननु चास्य निश्चितः संवादो नास्ति विप्रकृष्टार्थविषयत्वात्; तदसत्, तर्कस्य संवादसन्देहे हि कथं निस्सन्देहानुमानोत्था२० नम्? तभावे च कथं सामस्त्येन प्रत्यक्षस्याप्रामाण्यव्यवच्छेदेन
प्रामाण्यप्रसिद्धिः? ततो निस्सन्देहमनुमान मिच्छता साध्यसा. धनसम्बन्धग्राहि प्रमाणमसन्दिग्धमेवाभ्युपगन्तव्यम् ।
समारोपव्यवच्छेदकत्वाचास्य प्रामाण्यमनुमानवत् ।
प्रमाणविषयपरिशोधकत्वानोहः प्रमाणम् ; इत्यपि वार्तम् । २५प्रमाणविषयस्याप्रमाणेन परिशोधनविरोधात् मिथ्याज्ञानवत्प्र. मेयार्थवच्च । प्रयोगः-प्रमाणं तर्कः प्रमाणविषयपरिशोधकत्वा. दनुमानादिवत् । यस्तु न प्रमाणं स न प्रमाणविषयपरिशोधकः
.. १ अग्निसामान्यविशेषेण । २ देशान्तरकालान्तरसम्बन्धित्वेन। ३ अन्यविना. भूतधूमाजलानुमानोत्पत्तिप्रसङ्गात् । ४ स्वीकारेण। ५ अन्वय । . ६ व्यतिरेक । ७ साकल्येन। ८ दण्डज्ञान। ९ दण्डि। १० अनुमानलक्षणफलसद्भावात् । ११ तर्कस्य । १२ साकल्येन । १३ तर्कस्य अविसंवादकत्वं सुप्रसिद्धं यदि न स्यात् । १४ विषये। १५ प्रत्यक्षं प्रमाणमविसंवादकत्वादिति । १६ तर्कस्य संवादसन्देहे निस्सन्देहानुमानोत्थानं न स्याद्यतः । १७ तर्कः। ८ अनुमान। ९ तर्कः । २० दूरस्थितस्यार्थस्य प्रत्यक्षविषयस्य यथानुमानं परिशोधकम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org