________________
तर्कस्वरूप विचारः
सु० ३।१३ ]
३५१
ऐतेन साध्यसाधनयोः साकल्येनानुमानाद्याप्तिप्रतिपत्ते स्तर्क स्याप्रामाण्यमिति प्रत्युक्तम् । तन्न प्रत्यक्षानुमानयोः साकल्येन व्याप्तिप्रतिपत्तौ सामर्थ्यम् ।
अथास्मदादिप्रत्यक्षस्य व्याप्तिप्रतिपत्तावसामर्थ्यपि योगिप्रत्यक्षस्य तत् स्यात्; इत्यप्यस्त्ः तस्याप्यविचारकतया तावतो ५ व्यापारान् कर्त्तुमसमर्थत्वाविशेषात् । कुतश्चास्योत्पत्तिः - विकल्पमात्राभ्यासात्, अनुमानाभ्यासाद्वा ? प्रथमपक्षे कामशोकादिज्ञानवत्तस्याप्रामाण्यप्रसङ्गः । द्वितीयपक्षेप्यन्योन्याश्रयः - व्याप्तिविषये हि योगिप्रत्यक्षे सत्यनुमानम्, तस्मिंश्च सति तदभ्यासाद्योगिप्रत्यक्षमिति । अस्तु वा योगिप्रत्यक्षम् ; तथापि तत्प्रतिपन्नार्थेष्व- १० नुमानवैयर्थ्यम् । साध्यसाधनविशेषेषु स्पष्टं प्रतिभातेष्वपि अनुमाने सर्वत्रानुमानानुषङ्गात् स्वरूपस्याप्यध्यक्षतोऽप्रसिद्धिः ।
परार्थ तस्यानुमानमिति चेत् तर्हि योगी परार्थानुमानेन गृहीतव्याप्तिकम्, अगृहीतव्याप्तिकं वा परं प्रतिपादयेत् ? गृहीतव्याप्तिकं चेत्; कुतस्तेन गृहीता व्याप्तिः ? न तावत्स्वसंवेदनेन्द्रिय- १५. मनोविज्ञानैः तेषां तदविषयत्वात् । योगिप्रत्यक्षेण व्याप्तिप्रतिपत्तावनुमानवैयर्थ्यमित्युक्तम् । अगृहीतव्याप्तिकस्य च प्रतिपादनानुपपत्तिरतिप्रसङ्गात् ।
मानसप्रत्यक्षाध्याप्तिप्रतिपत्तिरित्यन्ये; तेप्यतत्त्वज्ञाः प्रत्यक्षस्येन्द्रियार्थसन्निकर्ष प्रभवत्वाभ्युपगमात् । अणुस्वभावमनसो युग- २० पदशेषार्थैस्तत्सम्बन्धस्य च प्रागेव प्रतिविहितत्वात् कथं तत्प्रत्ययेनापि व्याप्तिप्रतिपत्तिः १
ननु साध्यसाधनं धर्मयोः क्वचिद्व्यक्तिविशेषे प्रत्यक्षत एव सम्बन्धप्रतिपत्तिः; इत्यप्ययुक्तम्; साकल्येन तत्प्रतिपत्यभावानुषङ्गात् । साध्यं च किमग्निसामान्यम्, अग्निविशेषः, अग्निसामान्य - २५. विशेषो वा ? न तावदग्निसामान्यम्, तदनुमाने सिद्धसाध्यतीपत्तेः, विशेषतोऽसिद्धेश्च ? नाप्यग्निविशेषः, तस्यानन्वयात् ।
१ अनुमानेन व्याप्तिग्रहणेऽनवस्थेतरेतराश्रयत्वनिरूपणपरेण ग्रन्थेन । २ तद्भाहित्वादस्याप्रामाण्यमित्यत्रासौ यो विकल्पः । ३ निर्विकल्पकत्वेन । ४ विकल्पस्याप्रमाणत्वेनाऽङ्गीकरणात् । ५ उत्पन्ने । ६ स्वस्वरूपादौ । ७ भूभवनवर्द्धितोत्थितमपि नरं प्रतिपादयेत् । ८ योगाः । ९ तैरेव 1 १० अणुपरिमाणं मनः । ११ ते एव धर्मौ । १२ अग्नित्वसामान्यम् । १३ यत्र यत्र धूमस्तत्र तत्र खदिराग्निरिति । १४ अग्नित्वस्य । १५ साधनवैयर्थ्यमिति भावः । १६ तत्राविवादाद्वयाप्तिग्रहणकाले एवास्य प्रसिद्धेः । कथमन्यथा साध्यसाधनयोर्व्याप्तिनिर्णीतिः स्यात् ? । १७ देशादिना । १८ अग्नित्वस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org