________________
सू० ३।४-५] स्मृतिप्रामाण्यविचारः
३३७ तया वस्तुप्रतिभासः तथैव स्मृतौ तत्र तस्या (तस्य ) वैशद्याऽप्रतीतेः। पुनः पुनर्भावयतो वैशद्यप्रतीतिस्तु भावनाज्ञानम् , तच्च तद्रूपतया भ्रान्तमेव स्वप्नादिज्ञानवत् । तथाप्यनुभूतार्थविषयत्वमात्रेणास्याः प्रामाण्यानभ्युपगमे अनुमानेनाधिगतेऽग्नौ यत्प्रत्यक्ष तदप्यप्रमाणं स्यात् । असत्यतीतेथे प्रवर्त्तमानत्वात्तदप्रामाण्ये ५ प्रत्यक्षस्यापि तत्प्रसङ्गः, तदर्थस्यापि तत्कालेऽसत्त्वात् । तजन्मादेस्तत्रास्य प्रामाण्ये स्मरणेपि तदस्तु । निराकृतं चार्थजन्मादि ज्ञानस्य प्रागेवेति कृतं प्रयासेन । । न चाविसंवादकत्वं स्मृतेरसिद्धम् ; स्वयं स्थापितनिक्षेपादौ तगृहीतार्थे प्राप्तिप्रमाणान्तरप्रवृत्तिलक्षणाविसंवादप्रतीतेः । यत्र १० तु विसंवादः सा स्मृत्याभासा प्रत्यक्षाभासवत् । विसंवादकत्वे चास्याः कथमनुमानप्रवृत्तिः सम्बन्धस्यातोऽप्रसिद्धः ? न च सम्बन्धस्मृतिमन्तरेणानुमानमुदेत्यतिप्रसङ्गात्।
किञ्च, सम्बन्धाभावात्तस्याः विसंवादकत्वम् , कल्पितसम्बन्धविषयत्वाद्वा, सतोप्यस्याऽनया विषयीकर्तृमशक्यत्वाद्वा ? १५ प्रथमपक्षे कुतोऽनुमानप्रवृत्तिः? अन्यथा यतः कुतश्चित्सम्बन्धरहितौद्यत्र क्वचिदनुमानं स्यात् । कल्पितसम्बन्धविषयत्वेनास्याः विसंवादित्वे दृश्यप्राप्यैकत्वे प्राप्य विकल्प्यैकत्वे च प्रत्यक्षानुमानयोरविसंवादो न स्यात् । तत्सम्बन्धस्य कल्पितत्वे च अनुमानमप्येवंविधमेव स्यात् । तथा च कथमतोऽभीष्टतत्त्वसिद्धिः? अथ २० सन्नपि सम्बन्धोऽनया विषयीकर्तुं न शक्यते, यत्तु विषयीक्रियते सामान्यं तस्याऽसत्त्वात् स्मृतेर्विसंवादित्वम् । तदेतदनुमानेपि समानम् । अध्यवसितस्वलक्षणाव्यभिचारित्वं स्मृतावपि ।
१ वैशयमेव नास्ति कुतः परिच्छित्तिविशेषः इत्यभिप्रायं वक्ति बौद्धः। २ अवग्राहादिभेदेनानुभवतो नरस्य । ३ क्षणिकत्वात् । ४ आदिना ताद्रूप्यम् । ५ अर्थजन्मादिनिराकरणप्रयासेन। ६ प्रत्यक्ष। ७ विस्मृतसम्बन्धस्यापि अनुमानोत्पत्तिप्रसङ्गात् । ८ दृष्टान्तसाध्यसाधनयोः। ९ सम्बन्धाभाबे अनुमानप्रवृत्तियदि स्यात् । १० अर्थालिङ्गस्थानीयात् । ११ यदेव दृष्टं जलस्वलक्षणं तदेव प्राप्तमिति । १२ अनुमानलक्षणो विकल्पः। विकल्पस्य विषयो विकल्प्यो यो जलादिः । पूर्व विकल्प्यः पश्चात्प्राप्य इति । कथम् ? विवादापन्नो देशः प्रवृत्तस्य स्नानादिमान् जलत्वात्सम्प्रतिपन्नदेशवत् । इति यदेकानुमितं स्नानादिकं तदेव प्राप्तमिति । १३ स्मृतिगृह्यमाण। १४ सर्व क्षणिकं सत्त्वादिति क्षणिकत्वसिद्धिः। १५ तादात्म्यतदुत्पत्तिलक्षणः। १६ अन्यापोहः। १७ न्यायरूपमनुमानेन स्वलक्षणं विद्यमानं न विषयीक्रियते ( यद्विषयीकियते) सामान्यं तद्विधमान न भवतीति । १८ प्रत्यक्षेण । १९ यसः। २० स्खलक्षणं न व्यभिचरतीति न स्मृतेश्चेति । २१ समानम् ।
प्र. क. मा० २९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org