________________
३३६
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० संवादकत्वात् । यत्संवादकं तत्प्रमाणं यथा प्रत्यक्षादि, संवादिका च स्मृतिः, तस्मात्प्रमाणम् ।
नंनु कोयं स्मृतिशब्दवाच्योर्थः-ज्ञानमात्रम्, अनुभूतार्थविषयं वा विज्ञानम् ? प्रथमपक्षे प्रत्यक्षादेरपि स्मृतिशब्दवाच्यत्वानु५षङ्गः। तथा च कस्य दृष्टान्तता? न खलु तदेव तस्यैव दृष्टान्तो भवति। द्वितीयपक्षेपि देवदत्तानुभूतार्थे यज्ञदत्तादिज्ञानस्य स्मृतिरूपताप्रसङ्गः। अथ 'येनैव यदेव पूर्वमनुभूतं वस्तु पुनः काला. न्तरे तस्यैव तत्रैवोपजायमानं ज्ञानं स्मृतिः' इत्युच्यते ननु
'अनुभूते जायमानम्' इत्येतत् केन प्रतीयताम् ? न तावदनुभवेन; १० तत्काले स्मृतेरेवासत्त्वात् । न चासती विषयीक शक्या । न
चाविषयीकृता 'तंत्रोपजायते इत्यधिगतिः । न चानुभवकालेऽर्थस्यानुभूततास्ति, तदा तस्यानुभूयमानत्वात् , तथा च 'अनुभूयमाने स्मृतिः' इति स्यात्। अथ 'अनुभूते स्मृतिः' इत्येतत्स्मृतिरेव प्रति
पद्यते; न; अनयाऽतीतानुभवार्थयोरविषयीकरणे तथा प्रतीत्ययो१५ गात् । तद्विषयीकरणे वा निखिलातीतविषयीकरणप्रसङ्गोऽवि
शेषात् । यदि चानुभूतता प्रत्यक्षगम्या स्यात् ; तदा स्मृतिरपि जानीयात् 'अहमनुभूते समुत्पन्ना' इति अनुभवानुसारित्वात्तस्याः। न चासौ प्रत्यक्षगम्येत्युक्तम् ; इत्यप्यसमीक्षिताभिधानम् ; स्मृति
शब्दवाच्यार्थस्य प्रागेव प्ररूपितत्वात् । 'तदित्याकारानुभूतार्थ२० विषया हि प्रतीतिः स्मृतिः' इत्युच्यते ।
ननु चोक्तमनुभूते स्मृतिरित्येतन स्मृतिप्रत्यक्षाभ्यां प्रतीयते: तदप्यपेशलम् ; मतिज्ञानापेक्षेणात्मना अनुभूयमानाऽनुभूतार्थविषयतायाः स्मृतिप्रत्यक्षाकारयोश्चानुभवसम्भवात् चित्राकारप्रतीतिवत् चित्रज्ञानेन । यथा चाशक्यविवेचनत्वाद् युगपच्चित्राका२५ रतैकस्याविरुद्धा, तथा क्रमेणापि अवग्रहेहावायधारणास्मृत्योंदिचित्रस्वभावता । न च प्रत्यक्षेणानुभूयमानतानुभवे तदैवार्थे - नुभूतताया अप्यनुभवोऽनुषज्यते; स्मृति विशेषगापेक्षत्वात्तत्र तत्प्रतीतेः, नीलाद्याकारविशेषणापेक्षया ज्ञाने चित्रप्रतिपत्तिवत् ।
न चानुभूतार्थविषयत्वे स्मृतेहीतग्राहित्वेनाऽप्रामाण्यम्; ३०[प]रिच्छित्तिविशेषसम्भवात् । न खलु यथा प्रत्यक्षे विशदाकार। १ सोगतो वक्ति । २ अनुत्पन्नत्वेन । ३ अनुभूतेऽर्थे । ४ अनुभवकालेऽर्थस्यानुभूयमानत्वे च। ५ अनुभवश्चार्थश्च अनुभवाौँ । अतीतौ च तावनुभवाौँ च । ६ अतीतत्वस्य । ७ कर्ता। ८ प्रत्यक्षस्मरणयोः। ९ विज्ञानस्य । १० आदिना प्रत्यभिज्ञानादि । ११ एकस्यात्मनोऽविरुद्धा। १२ उत्तरकालमात्मनः । १३ तमेव दर्शयति।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org