SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ।श्रीः । ॥ अथ तृतीयः परोक्षपरिच्छेदः॥ अथेदानीं परोक्षप्रमाणस्वरूपनिरूपणाय परोक्षमितरत् ॥ १॥ इत्याह । प्रतिपादितविशदस्वरूपविज्ञानाद्यदन्यदऽविशदस्वरूपं विज्ञानं तत्परोक्षम् । तथा च प्रयोगः-अविशदज्ञानात्मकं परोक्ष परोक्षत्वात् । यन्नाऽविशदज्ञानात्मकं तन्न परोक्षम् यथा मुख्ये-५. तरप्रत्यक्षम् , परोक्षं चेदं वक्ष्यमाणं विज्ञानम् , तस्मादविशदज्ञानात्मकमिति। तनिमित्तंप्रकारप्रकाशनाय प्रत्यक्षेत्याद्याहप्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञान तर्कानुमानागमभेदम् ॥२॥ प्रत्यक्षादिनिमित्तं यस्य, स्मृत्यादयो भेदा यस्य तथोक्तम् । तत्र स्मृतेस्तावत्संस्कारेत्यादिना कारणस्वरूपे निरूपयतिसंस्कारोबोधनिबन्धना तदित्याकारास्मृतिः॥३॥ संस्कारः सांव्यवहारिकप्रत्यक्षभेदो धारणा । तस्योद्बोधेः प्रबोधः। स निबन्धनं यस्याः तदित्याकारो यस्याः सा तथोक्ता १५ स्मृतिः। विनेयानां सुखाववोधार्थ दृष्टान्तद्वारेण तत्स्वरूपं निरूपयति यथा स देवदत्त इति ॥४॥ यथेत्युदाहरणप्रदर्शने । स देवदत्त इति । एवंप्रकारं तच्छब्दपरामृष्टं यद्विज्ञानं तत्सर्व स्मृतिरित्यवगन्तव्यम्। न चासावप्रमाणं २० १ स्मृतिप्रत्यभिज्ञानतर्वानुमानागमविशेषाः स्वभाविनो धर्मिणः प्रसिद्धाः । तत्र परोक्षत्वं सामान्यरूपं वादिप्रतिवादिनोः प्रसिद्धस्वभावः-तेन वस्तुनोऽनेकधर्मात्मकस्वात् । तत्र स्थितो द्वितीयोऽविशदज्ञानात्मकोऽप्रसिद्धः साध्यते इति विशेष स्वभाविनं (स्वभावस्वभाविनोभेंदात् ) सामान्यस्वभावं ब्रुवतां दोषाभावात् । २ कारण । ३ मेद । ४ स्मृतिः प्रत्यक्षपूर्विका । प्रत्यभिज्ञानं प्रत्यक्षस्मरणपूर्वकम् । तर्कः प्रत्यक्षस्मरणप्रत्यभिज्ञानपूर्वकः । अनुमानं प्रत्यक्षस्मरणप्रत्यभिज्ञानतर्कपूर्वकम् । आगमस्तु भावणाध्यक्षसङ्केतस्मृतिपूर्वकः । ५ संस्कारस्य कारणमायं देवदत्तदर्शनम् । उद्घोषस्य कारणं पाश्चात्यं तत्सदृशतत्कार्यादिदर्शनम् । ६ प्राकट्यम् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy