________________
३३८ प्रमेयकमलमार्तण्डे [३. परोक्षपरि०
किञ्च, लिङ्गलिङ्गिसम्बन्धः सत्तामात्रेणानुमानप्रवृत्तिहेतुः, तदर्शनात्, तत्स्मरणाद्वा? तत्राद्यविकल्पे नालिकेरद्वीपायातस्याप्रतिपन्नाग्निधूमसम्बन्धस्यापि धूमदर्शनादग्निप्रतिपत्तिः स्यात् । न चाविज्ञातः सम्बन्धोस्ति उपलम्भनिबन्धनत्वात्सद्व्यवहारस्य, ५अन्यथातिप्रंसगात् । तदर्शनमात्रेण तत्प्रवृत्तौ वालावस्थायां प्रतिपन्नाग्निधूमसम्बन्धस्य पुनर्वृद्धदशायां धूमदर्शनादग्निप्रतिपत्तिप्रसङ्गः, न चैवम् । तत्स्मृतावस्त्येवेति चेत्, कथं नासौ प्रमाणम् ? को हि स्मृतिपूर्वकमनुमानमभ्युपगम्य पुनस्तां निराकुर्यात् ? अनुमानस्यापि निराकरणानुषङ्गात् । न खलु कारणाभावे कार्योत्पत्ति१० र्नामाऽतिप्रसङ्गात्।
समारोपव्यवच्छेदकत्वाचास्याः प्रामाण्यमनुमानवत् । न च स्मृतिविषयभूते सम्बन्धादौ समारोपस्यैवासम्भवात् कस्य व्यवच्छेद इत्यभिधातव्यम्; सोधर्म्यदृष्टीन्ताभिधानानर्थक्यप्रसङ्गात् ।
तत्र स्मृतिहेतुभूतं हि तत्, अन्यथा हेतुरेव केवलोभिधीयेत । १५ ततस्तदभिधानान्यथानुपपत्तस्तद्विषयभूते सम्बन्धादौ विस्मरणसंशयविपर्यासलक्षणः समारोपोस्तीत्यवगम्यते । तन्निराकरणाच्चास्याः प्रामाण्यमिति ।
अथेदानी प्रत्यभिज्ञानस्य कारणस्वरूपप्ररूपणार्थ दर्शनेत्याद्याह२० दर्शन-स्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानम् । तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि॥५
दर्शनस्मरणे कारणं यस्य तत्तथोक्तम् । सङ्कलनं विवक्षितधर्मयुक्तत्वेन प्रत्यवमर्शनं प्रत्यभिज्ञानम् । नेनु प्रत्यभिज्ञायाः प्रत्य
क्षप्रमाणस्वरूपत्वात् परोक्षरूपतयात्राभिधानमयुक्तम् ; तथाहि२५प्रत्यक्षं प्रत्यभिज्ञा अक्षान्वयव्यतिरेकानुविधानात् तदन्यप्रत्यक्षवत् । न च स्मरणपूर्वकत्वात्तस्याः प्रत्यक्षत्वाभावः; सत्सम्प्रयोगजत्वेन स्मरणपश्चाद्धावित्वेप्यस्याः प्रत्यक्षत्वाविरोधात् । उक्तं च
१ परपक्षप्रतिक्षेपं करोति सूरिः। २ ग्रहण। ३ अशातस्यापि सत्त्वसिद्धिश्चेत् । ४ ईश्वरादेरपि सत्त्वसिद्धिप्रसङ्गात् । ५ विस्मृतसम्बन्धस्य । ६ अनुमानप्रवृत्तिः । ७ मृत्पिण्डाभावे घटोत्पत्तिप्रसङ्गात् । ८ साध्यसाधनविषये । ९ समारोपाभावे इति शेषः। १० यत्सत्तत्सव क्षणिकं यथा जलधरः। ११ सम्बन्धस्मृतिहेतुभूतो दृष्टान्तो यदि न स्यात् । १२ एकत्वसादृश्यादिलक्षण! १३ पुनर्ग्रहणम् । १४ मीमांसकः । .१५ परोक्षप्रमाणे। १६ सतो विद्यमानस्यार्थस्पेन्द्रियेण सह संयोगः सन्निकर्षस्तसाजातः सत्सम्प्रयोगजस्तस्य भावस्तत्त्वं तेन। ..
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org