________________
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० वस्त्रखण्डे गृहीतेपि विरक्तो यदि तत्त्वतः। स्त्रीमात्रेपि तथा किन्न तुल्याक्षेपसमाधितः ॥३॥ नापि तन्वीमनःक्षोभनिवृत्त्यर्थं तदादृतम् । तद्वाञ्छाऽहेतुकत्वेन तनिषेधस्य सम्भवात् ॥ ४॥ चक्षुरुत्पाटनं पट्टबन्धनं च प्रसज्यते। लोचनादेस्तदुत्पत्तौ निमित्तत्वाविशेषतः॥५॥ चलचित्ताङ्गना काचित्संयतं च तपस्विनम्। यदीच्छति भ्रातृवत्किं दोषस्तस्य मतो नृणाम् ॥ ६॥ बीभत्सं मलिनं साधुं दृष्ट्वा शवशरीरवत् । अङ्गना नैव रज्यन्ते विरज्यन्ते तु तत्त्वतः ॥७॥ स्त्रीपरीषहभग्नश्च बद्धरागश्च विग्रॅहे। वस्त्रमादीयते यस्मात्सिद्धं पँन्थद्वयं ततः॥ ८॥ न चैवं जन्तुरक्षागण्डादिप्रतीकारार्थे पिच्छौषधादौ गृह्यमाणेप्ययं दोषः समानः; त्रिचतुरपिच्छग्रहणस्य जन्तुरक्षार्थत्वात् , १५शरीरे ममेदम्भावाऽसूचकत्वाञ्च, औषधस्यापि प्रतिपन्नसाम
र्थ्यस्य गण्डादेर्व्यावृत्तिहेतुत्वात् नाग्यौविरोधित्वाच्च, वस्त्रे तु विपर्ययात्, परमनैर्ग्रन्थ्यसिद्ध्यर्थ पिच्छस्याप्यग्रहणाचौधवत् । पिण्डौषध्यादयो हि सिद्धान्तानुसारेणोद्मादिदोषरहिता रत्न
त्रयाराधनहेतवो गृह्यमाणा न कस्यापि मोक्षहेतोः हन्तारः। न हि २० तद्ब्रहणे रागादयोऽन्तरङ्गा बहिरङ्गा वा बभूषांवेषादयो ग्रन्था जायन्ते, अतस्ते मोक्षहेतोरुपकर्त्तार एव । पिण्डग्रहणमन्तरेण ह्यपूर्णकालेपि विपत्तेरापत्तेरात्मघातित्वं स्यात् , न तु वस्त्रे । षष्टाष्टमादिक्रमेण च मुमुक्षुभिः पिण्डोपि त्यज्यते, न तु स्त्रीभिः कदाचिद्वस्त्रम् ।
१ रागादिसद्भावे सत्येव स्त्रीपरिग्रह इत्याक्षेपो वस्त्रेपि समान इति समाधानम् । एवं यदि वस्त्रमात्रे गृहीते न रागस्तहिं स्त्रीमात्रपरिग्रहे पि न रागः । २ स्वस्य । ३ श्रोत्रादेश्च । ४ यथा भातृसमानत्वं वनितायाम् । कुत एतत्तस्य ? इच्छारहितत्वात्तस्य तपस्विनः । ५ शरीरे। ६ कारणात् । ७ वस्त्ररागलक्षणबाह्याभ्यन्तरपरिग्रहः। ८ तत इत्ययं शब्दः श्लोकादौ द्रष्टव्यस्तेनायमर्थः वस्त्रस्वीकरणे अपरं प्रयोजनं नास्ति यतस्ततः। ९ वस्त्रप्रकारेण । १० गण्डो रोगविशेषः। ११ मूर्छा१२ नैन्थ्य- १३ जन्तुरक्षार्थीभावान्ममेदम्भावसूचकत्वाद् गण्डाचव्यावृत्तिहेतुत्वाद् नाम्यविरोधित्वाच्च । १४ किञ्च । १५ औषधादेर्यथाऽग्रहणम् । १६ सम्यग्दर्शनादेः। १७ अलङ्कार-। १८ मण्डन- १९ देशनैयत्येन वस्त्रपरिधानादिलक्षणी वेषः । २० अगृह्यमाणे आत्मघातित्वं स्यादिति शेषः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org