________________
सू० २।१२] स्त्रीमुक्तिविचारः न्तरं स्वशरीरानुरागादिपरिग्रहमनुमापयति । न च शरीरोष्मणा वातकायिकादिजन्तूपघातनिवारणार्थ खशरीरानुरागाद्यभावप्यसावुपादीयते इत्यभिधेयम्; पुंसामाचेलक्यव्रतस्य हिंसात्वानुष. ङ्गात् । तथा चार्हदादयो मुक्तिभाजस्तदुपदेष्टारो वान स्युः, किन्तु सवस्त्रा एव गृहस्था मुक्तिभाजो भवेयुः । न चाचेलक्यं नेष्यते ५
"आचेलकुद्देसिय सेजाहररायपिंडकिदिकम्म" [जीतकल्पभा० गा० १९७२] इत्यादेः पुरुषं प्रति देशविधस्य स्थितिकल्पस्य मध्ये तदुपदेशात् ।
किञ्च, गृहीतेपि वस्त्रे जन्तूपघातस्तदवस्थः, तेनानावृतपाणिपादादिप्रदेशोष्मणा तदुपघातस्य परिहर्तमशक्तेः । वस्त्रस्य १० यूकालिक्षाद्यनेकजन्तुसम्मूर्च्छनाधिकरणत्वाच्च । तथाविधस्यापि स्वीकरणे मूर्खजानां लुश्चनादिक्रिया न स्यात् । वस्त्राकुश्चनादेर्जातवातेनाकाशप्रदेशावस्थितजन्तूपपीडनाञ्च व्यजनादिवातवत् । - किञ्च,एवमनेकप्राण्युपघातनिवारणार्थमविहारोप्यनुष्ठेयोवस्त्रग्रहणवदविशेषात् । प्रयत्नेन गच्छतो जन्तूपघातेप्यहिंसा निश्चे-१५ लेपि समा। यथा च यज्ञानुष्ठानं पशुहिंसाङ्गत्वेनाऽश्रेयस्करत्वात् त्याज्यं तथा वस्त्रग्रहणमप्यविशेषात् ।
एतेन संयमोपकरणार्थ तदित्यपि निरस्तम् । किञ्च, बाह्याभ्यन्तरपरिग्रहपरित्यागः संयमः। स च याचनसीवनप्रक्षालनशोषणनिक्षेपादानचौरहरणादिमनःसंक्षोभकारिणि २० वस्त्रे गृहीते कथं स्यात् ? प्रत्युत संयमोपघातकमेव तत् स्याद्वाह्याभ्यन्तरनैर्ग्रन्थ्यप्रतिपन्थित्वात् ।
हीशीतार्तिनिवृत्त्यर्थं वस्त्रादि यदि गृह्यते । कामिन्यादिस्तथा किन्न कामपीडादिशान्तये ? ॥१॥ येन येन विना पीडा पुंसां समुपजायते । तत्तत्सर्वमुपादेयं लावादिपलाँदिकम् ॥ २॥
१ परेण । २ आचेलक्यौदेशिकशय्याधरराजकीयपिण्डोक्षाकृतिकर्मव्रतरोपणयोग्यत्वं ज्येष्ठता प्रतिक्रमणं मासिकवासिता स्थितिकल्पो योगश्च वार्षिको दशमः। ३ अनुप्रेक्षासंयमस्य । ४ यूकाधनेकजन्तुसम्मूर्छनाधिकरणत्वाविशेषात् एषां निवारणार्थम् । ५ प्रसारणाच्च । ६ व्यजक । ७ जन्तूपघातपरिहारार्थ वस्त्रस्योपादानप्रकारेण । ८ अगमनम् । ९ वस्त्रस्य जन्तूपघातसमर्थनपरेण ग्रन्थेन। १० विशेषतः । ११ विरोधिस्वात् ।१२ ताम्बूलादिश्च । १३ वस्त्रग्रहणप्रकारेण । १४ गृह्यते । १५ यदि तहीति शेषः । १६ लावकः पक्षिविशेषः । पलं मांसम् । १७ उपादेयम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org