________________
३३३
सू० २।१२] स्त्रीमुक्तिविचारः
अथ वस्त्रादन्यस्याखिलस्य त्यागात्साकल्येनासां बाह्यं नैर्ग्रन्थ्यम् । तर्हि लोभादन्यकषायत्यागादेवाबाह्यमपि स्यात् । न च गृहीतेपि वस्त्रे ममेदम्भावस्याभावात्तदवतिष्ठते; विरोधात्'बुद्धिपूर्वकं हि हस्तेन पतितवस्त्रमादाय परिदधानोपि तन्मूछीरहितः' इति कश्चेतनः श्रद्दधीत? तन्वीमाश्लिष्यतोपि तेंद्रहित-५ त्वप्रसङ्गात् । ततो वस्त्रग्रहणे बाह्याभ्यन्तरपरिग्रहप्राप्त र्ग्रन्थ्यद्वयासम्भवान्न स्त्रीणां मोक्षः । स हि बाह्याभ्यन्तरकारणजन्यः कार्यत्वान्माषपाकादिवत् । तच्च बाह्यमभ्यन्तरं च कारणमाकि. ञ्चन्यम् , तदभावे कथं स स्यात् ? इति पैरहेतोरसिद्धर्नानुमानात् स्त्रीमुक्तिसिद्धिः। नाप्यागमात् ; तन्मुक्तिप्रतिपादकस्यास्याभावात् । "पुंवेदं वेदंता जे पुरिसा खवगसेढिमारूढा । सेसोदयेणे वि तहा झाणुर्वजुत्ता य ते दु सिझंति ॥"
इत्यादेरप्यागमस्य स्त्रीमुक्तिप्रतिपादकत्वाभावः । स हि पुवे-१५ दोदयवत् शेषवेदोदयेनापि पुंसामेवापवर्गावेदक उभयत्रापि 'पुरुषाः' इत्यभिसम्बन्धात् । उदयश्च भावस्यैव न द्रव्यस्य ।
स्त्रीत्वान्यथानुपपत्तेश्चासां न मुक्तिः । आगमे हि जघन्येन सप्ताष्टभिर्भवैः उत्कर्षेण द्वित्रैर्जीवस्य रत्नत्रयाराधकस्य मुक्तिरुक्ता। यदा चास्य सम्यग्दर्शनाराधकत्वम् तत्प्रभृति सर्वासु स्त्रीषूत्पत्ति-२० रेव न सम्भवतीति कथं स्त्रीमुक्तिसिद्धिः ।
ननु चानादिमिथ्यादृष्टिरपि जीवः पूर्वभवनिर्जीर्णाशुभकर्मा प्रथमतरमेव रत्नत्रयमाराध्य भरतपुत्रादिवन्मुक्तिमासादयत्यतः स्त्रीत्वेनोत्पन्नस्यापि मुक्तिरविरुद्धति; तदप्ययुक्तम् ; पूर्व निर्जीर्णाशुभकर्मणः स्त्रीवेदेनोत्पत्तरसम्भवात्, तस्याप्यशुभकर्मत्वेन २५ निर्जीर्णत्वात् । कथं पुनः स्त्रीवेदस्याशुभकर्मत्वमिति चेत्; सम्यग्दर्शनोपेतस्य तत्त्वेनोत्पत्तेरयोगात् ।
ततो नास्ति स्त्रीणां मोक्षः पुरुषादन्यत्वात् नपुंसकवत् । अन्यथाऽस्याप्यसौ स्यात् । न चैतद्वाच्यम्-नास्ति पुंसो मोक्षः स्त्रीतो.
१ तत्रागादि । २ बाह्यमन्यादिकमन्तरा शक्तिरेव यथा न हेतुः। ३ सितपटप्रयुक्तस्य अविकलकारणत्वादित्यस्य । ४ अनुभवन्तः। ५ नपुंसकस्त्रीवेदोदयेनापि । ६ ध्यानोपयुक्ताः। ७ पुरुषाः। ८ मुक्तिसद्भावे सति । ९ दिव्यस्त्रयादिषु । १० अन्यथानुपपत्तिः सिद्धा यतः। ११ स्त्रीणां मोक्षश्चेत् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org