________________
सू० २।१२]
३२७
परिच्छेद्यस्यानेकधर्माध्यासितवस्तुस्वरूपाने कान्तस्य नयपरिच्छेद्यैकान्ताविनाभावित्वात् ।
मोक्षस्वरूप विचारः
'आत्मैकत्वज्ञानात्' इत्यादिग्रन्थस्तु सिद्धसाध्यतया न समाधानमर्हति ।
न च गुणपुरुषान्तरविवेकैदर्शनं निःश्रेयससाधनं घटते; प्रकर्ष - ५ पर्यन्तावस्थायामप्यात्मनि शरीरेण सहावस्थानान्मिथ्याज्ञानवत् ।
अथ फलोपभोगकृतोपात्तकर्मक्षयापेक्षं तत्त्वज्ञानं परँनिःश्रेयसस्य साधनम्, तदनपेक्षं चाऽपरनिश्रेयसस्येत्युच्यते; तदप्युक्तिमात्रम्: फलोपभोगस्योपक्रमिकानौपक्रमिक विकल्पानतिक्रमात् । तस्योपक्रमिकत्वे कुतस्तदुपक्रमोऽन्यंत्र तपोतिशयात् इति १० तत्त्वज्ञानं तपोतिशय सहाय मन्तर्भूततत्त्वार्थ श्रद्धानं परनिःश्रेयस कारणमित्यनिच्छतो प्यायातम् । तस्यानौपक्रमिकत्वे तु सदा सद्भावानुषङ्गः ।
"
यच्च स्वरूपे चैतन्यमात्रेऽवस्थानं मोक्ष इत्युक्तम्; तदयुक्तम् ; चैतन्यविशेषेऽनन्तज्ञानादिस्वरूपेऽवस्थानस्य मोक्षत्वसाधनात् । १५ नानन्तज्ञानादिकमात्मनोऽस्वरूपं सर्वज्ञत्वादिविरोधात् । प्रधानस्य सर्वज्ञत्वादिस्वरूपं नात्मन इत्यसत्; तस्याचेतनत्वेनाकाशादिवत्तद्विरोधात् । ज्ञानादेरप्यचेतनत्वात् प्रधानस्वभ ( भा ) वत्वाविरोधश्चेत्; कुतस्तदचेतनत्वसिद्धि: ? ' अचेतना ज्ञानादय उत्पत्तिमत्त्वाद घटादिवत्' इत्यनुमानाच्चेत्; न; हेतोरनुभवेनानेका - २० न्तात् तस्य चेतनत्वेप्युत्पत्तिमत्त्वात् । न चोत्पत्तिमत्त्वमसिद्धम् ; परापेक्षत्वाद्बुद्ध्यादिवत् । परापेक्षोसौ बुद्ध्यध्यवसायापेक्षत्वात् "बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयेते" [ ] इत्यभिधानात् ।
"
कालात्ययापदिष्टश्चायं हेतुः ज्ञानादीनां स्वसंवेदन प्रत्यक्षाश्चेतनत्वप्रसिद्धेरध्यक्षबाधितपक्षानन्तरं प्रयुक्तत्वात् । चेतनसंसर्गात्तेषां २५ चेतनत्वप्रसिद्धिः; इत्यप्यचर्चिताभिधानम् ; शरीरादेरपि तत्प्रसिद्धिप्रसङ्गात् चेतनप्र (त्व) संसर्गाविशेषात् । शरीराद्यसम्भवी तेषां
1
१ यसः । कथम् ? स चासावनेकान्तश्व तस्य । २ प्रकृतिसत्त्वादिगुणयोरमेदाद्गुण इत्युक्ते प्रकृतिर्माया । ३ पुरुषविशेष । ४ भेदभावनाज्ञानम् । ५ विवेकदर्शनस्य । ६ अस्मन्मते तु सम्यग्दर्शनादिकं परमप्रकर्षप्राप्तं शरीरेण सहावस्थायि न भवति अयोगिचरमसमये एव शरीराभावलक्षणे तत्सद्भावात् । ७ जीवन्मुक्तिः । ८ सकानिर्जरा अकामनिर्जरा चेति । ९ भेद । १० वर्जने । ११ यौगस्य । १२ फलोपभोगश्चेति कृत्वा । १३ सदा मुक्तिप्रसङ्गः । १४ दर्शनेन । १५ अनुभवस्य | १६ अर्थप्रतिबिम्बन । १७ निश्चितम् । १८ आत्मा । १९ अनुभवति ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org