________________
प्रमेयकमलमार्त्तण्डे
[ २. प्रत्यक्षपरि०
संसर्गविशेषोस्तीति चेत्; स कोन्योऽन्येत्र कथञ्चित्तादात्म्यात् ? तंददृष्टकृतकत्वादेः शरीरादावपि भावात् । ततो नाचेतना ज्ञानादयः स्वसंवेद्यत्वादनुभववत् । स्वसंवेद्यास्ते परसंवेदनान्यथानुपपत्तेरिति स्वसंवेदनसिद्धिप्रस्तावे प्रतिपादितम् । तथा चात्म५ स्वभावास्ते चेतनत्वादनुभववत् । सुखमप्यात्मस्वभाव एव मोक्षेऽभिव्यज्यमानत्वाद् ज्ञानवत् । अनात्मस्वभावत्वे तत्र तदभिव्यक्तिर्न स्याद्दुःखवत् ।
१०
तथा सुखात्मको मोक्षश्चेतनात्मकत्वे सत्यखिल दुःखविवेकात्मकत्वात् संहृतसकल विकल्पध्यानावस्थावत् । तथानन्तं तत् १० आत्मस्वभावत्वे सत्यपेतं प्रतिबन्धत्वात् ज्ञानवदेव | अपेतप्रतिबन्धत्वं तु मोहनीयादेः प्रतिबन्धकस्य कर्मणोऽपायात्प्रसिद्धमेव । इति सिद्धमनन्तज्ञानादिचैतन्यविशेषेऽवस्थानं पुंसो मोक्ष इति ।
३२८
नैन पुंस एवानन्तज्ञानादिस्वरूपलाभलक्षणो मोक्ष इत्ययुक्तम्; स्त्रीणामप्यस्योपपत्तेः । तथाहि -अस्ति स्त्रीणां मोक्षोऽविकलकारण१५ त्वात् पुरुषवत् ; तदसत् हेतोरसिद्धेः तथाहि मोक्ष हेतुर्ज्ञानादिपरमप्रकर्षः स्त्रीषु नास्ति परमप्रकर्षत्वात् सप्तमपृथ्वीगमनकार णापुण्यपरमप्रकर्षवत् । यदि नाम तत्र तत्कारणापुण्य परमप्रकर्षाभावो मोक्षहेतोः परमप्रकर्षाभावे किमायातम् ? कार्यकारणव्याव्यव्यापकभावाभावे हि तयोः कथमन्यस्याभावेऽन्यस्याभावोऽतिप्र२० सँङ्गात् इति चेत्; सत्यम् ; अयं हि तावन्नियमोस्ति-येद्वेदस्य मोक्षहेतु परमप्रकर्षस्तद्वेदस्य तत्कारणापुण्यपरमप्रकर्षोप्यस्त्येव यथा पुंवेदस्य । न च चरमशरीरेण व्यभिचारः; पुंवेदसामान्यापेक्षयोक्तेः ।
"
१ विना । २ पुरुषादृष्टकृतः अन्यः संसर्गविशेषो शानादिभिरात्मनोऽस्तीत्युक्ते' आइ । ३ संसर्गस्य । ४ पटादिः परः । ५ ज्ञानस्य स्वसंविदितत्वाभावे । ६ चेतनत्वसिद्धितया । ७ सुखस्य । ८ अखिलदुःखविवेकात्मकत्वादित्युक्ते घटेन व्यभिचारस्तत्परिहारार्थं चेतनात्मकत्वे सतीत्युक्तम् । ९ चेतनात्मकत्वादित्युच्यमाने खण्ड्यमाननरेण व्यभिचारस्तत्परिहारार्थमखिलदुः स्वविवेकात्मकत्वादित्युक्तम् । १० आत्म स्वभावत्वादित्युच्यमाने दुःखेन व्यभिचारस्तत्परिहारार्थमपेत प्रतिबन्धत्वादित्युक्तम् । ११ अपेतप्रतिबन्धत्वादित्युच्यमाने प्रदीपेन व्यभिचारस्तत्परिहारार्थमात्म स्वभावत्वे सतीत्युक्तम् । १२ लक्षणम् । १३ श्वेतपट: । १४ मोक्षहेतुज्ञानादिपरमप्रकर्ष तत्कारणापुण्य परमप्रकर्षयोः । १५ अकारणस्याव्यापकस्य वा । १६ अकार्यस्याव्यापकस्य वा । १७ घटाभावे त्रैलोक्याभावो भवेत् । १८ अविनाभावः । १९ पुंसि सप्तम पृथ्वीगमनकारणापुण्यप्रकर्षोस्ति मोक्षहेतुज्ञानादिपरमप्रकर्षस्वात् । २० व्याप्यो हेतुः । २१ साध्यो व्यापकः । २२ इति पुंसि अनयोर्व्याप्यव्यापकभावः सिद्धः सन् स्त्रीषु व्यापकाभावे व्याप्याभावं साधयत्येवेति भावः । २३ आत्मना ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org